ऋग्वेद - मण्डल 4/ सूक्त 23/ मन्त्र 9
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रऋतदेवो वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं॑षि। ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥९॥
स्वर सहित पद पाठऋ॒तस्य॑ । दृ॒ळ्हा । ध॒रुणा॑नि । स॒न्ति॒ । पु॒रूणि॑ । च॒न्द्रा । वपु॑षे । वपूं॑षि । ऋ॒तेन॑ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः॑ । ऋ॒तेन॑ । गावः॑ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥
स्वर रहित मन्त्र
ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि। ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥९॥
स्वर रहित पद पाठऋतस्य। दृळ्हा। धरुणानि। सन्ति। पुरूणि। चन्द्रा। वपुषे। वपूंषि। ऋतेन। दीर्घम्। इषणन्त। पृक्षः। ऋतेन। गावः। ऋतम्। आ। विवेशुः ॥९॥
ऋग्वेद - मण्डल » 4; सूक्त » 23; मन्त्र » 9
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 4
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! ऋतस्याचरणेनैव दृळ्हा धरुणानि पुरूणि चन्द्रा वपुषे वपूंषि प्राप्तानि सन्ति। ऋतेन पृक्षो दीर्घञ्चायुरिषणन्त ऋतेन गाव ऋतमाविवेशुरिति विजानीत ॥९॥
पदार्थः -
(ऋतस्य) सत्यस्य धर्म्मस्य (दृळ्हा) दृढानि (धरुणानि) उदकानीव शान्तान्याचरणानि। धरुणमित्युदकनामसु पठितम्। (निघं०१.१२) (सन्ति) (पुरूणि) बहूनि (चन्द्रा) आह्लादकानि सुवर्णादीनि (वपुषे) सुरूपाय शरीराय (वपूंषि) रूपाणि (ऋतेन) सत्याचरणेन (दीर्घम्) चिरञ्जीविनम् (इषणन्त) प्राप्नुवन्ति (पृक्षः) संस्पृष्टव्यमन्नादिकम् (ऋतेन) सत्याचरणेन (गावः) धेनवो वत्सस्थानानीव सुशिक्षिता वाचः (ऋतम्) सत्यं ब्रह्म (आ) (विवेशुः) आविशन्ति ॥९॥
भावार्थः - हे मनुष्या ! यथा जलेन प्राणधारणमन्नाद्युत्पत्तिः सुरूपं दीर्घमायुश्च जायते तथैव सत्याचारेण सकलैश्वर्य्यं विद्या चिरञ्जीवनञ्च भवति यतः सततं सत्यमेवाऽऽचरत ॥९॥
इस भाष्य को एडिट करें