Loading...
ऋग्वेद मण्डल - 4 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 23/ मन्त्र 8
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रऋतदेवो वा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीर्ऋ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति। ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥८॥

    स्वर सहित पद पाठ

    ऋ॒तस्य॑ । हि । शु॒रुऽधः॑ । सन्ति॑ । पू॒र्वीः । ऋ॒तस्य॑ । धी॒तिः । वृ॒जि॒नानि॑ । ह॒न्ति॒ । ऋ॒तस्य॑ । श्लोकः॑ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा॑ । बु॒धा॒नः । शु॒चमा॑नः । आ॒योः ॥


    स्वर रहित मन्त्र

    ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजिनानि हन्ति। ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥८॥

    स्वर रहित पद पाठ

    ऋतस्य। हि। शुरुधः। सन्ति। पूर्वीः। ऋतस्य। धीतिः। वृजिनानि। हन्ति। ऋतस्य। श्लोकः। बधिरा। ततर्द। कर्णा। बुधानः। शुचमानः। आयोः ॥८॥

    ऋग्वेद - मण्डल » 4; सूक्त » 23; मन्त्र » 8
    अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 3

    अन्वयः - हे राजन् ! यस्यर्त्तस्य सत्याचारस्य पूर्वीः शुरुधः सन्ति यस्यर्त्तस्य धीतिर्वृजिनानि प्राप्य शत्रून् हन्ति यस्यर्त्तस्य श्लोको बधिरा कर्णा ततर्द योऽन्यान् बुधानः शुचमान आयोर्जीवनस्योपायानुपदिशति तं हि गुरुवत् सत्कुर्य्याः ॥८॥

    पदार्थः -
    (ऋतस्य) सत्यस्य (हि) यतः (शुरुधः) याः शु सद्यो रुन्धन्ति ताः स्वसेनाः। शुरुध इति पदनामसु पठितम्। (निघं०४.३) (सन्ति) (पूर्वीः) प्राचीनाः (ऋतस्य) यथार्थस्य (धीतिः) धारणावती प्रज्ञा (वृजिनानि) बलानि। वृजिनमिति बलनामसु पठितम्। (निघं०२.९) (हन्ति) (ऋतस्य) सत्यस्य (श्लोकः) वाक्। श्लोक इति वाङ्नामसु पठितम्। (निघं०१.११) (बधिरा) बधिराणि (ततर्द) हिनस्ति (कर्णा) कर्णानि (बुधानः) बोधयन् (शुचमानः) पवित्रः पवित्रयन् (आयोः) जीवनस्य ॥८॥

    भावार्थः - हे अध्यापक राजन् वा ! ये जितेन्द्रिया दुष्टाचारस्य निरोधकाः सत्यस्य प्रचारकाः सत्यवाचो बधिरवद्वर्त्तमानाज्ञान् बोधयन्तो ब्रह्मचर्य्याद्युपदेशेन दीर्घायुषः सम्पादयन्तः क्लेशानां शत्रूणाञ्च हन्तारः स्युस्त एव स्वात्मवन्माननीयाः स्युः ॥८॥

    इस भाष्य को एडिट करें
    Top