Loading...
ऋग्वेद मण्डल - 4 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 35/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - ऋभवः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः। सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥२॥

    स्वर सहित पद पाठ

    आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः । सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥


    स्वर रहित मन्त्र

    आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः। सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥२॥

    स्वर रहित पद पाठ

    आ। अगन्। ऋभूणाम्। इह। रत्नऽधेयम्। अभूत्। सोमस्य। सुऽसुतस्य। पीतिः। सुऽकृत्यया। यत्। सुऽअपस्यया। च। एकम्। विऽचक्र। चमसम्। चतुःऽधा ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 35; मन्त्र » 2
    अष्टक » 3; अध्याय » 7; वर्ग » 5; मन्त्र » 2

    अन्वयः - हे मनुष्या ! भवन्तो सुकृत्यया स्वपस्यया यद्यमेकं चमसं चतुर्धा विचक्र येन सुषुतस्य सोमस्य पीतिरभूदिहर्भूणां रत्नधेयमागँस्तेन च गमनादिकार्य्याणि साध्नुत ॥२॥

    पदार्थः -
    (आ) समन्तात् (अगन्) (ऋभूणाम्) मेधाविनाम् (इह) अस्मिन् संसारे (रत्नधेयम्) (अभूत्) भवेत् (सोमस्य) ऐश्वर्य्यस्य (सुषुतस्य) सुष्ठु निष्पादितस्य (पीतिः) पानम् (सुकृत्यया) शोभनक्रियया (यत्) यम् (स्वपस्यया) सुष्ठ्वपांसि कर्माणि तान्यात्मन इच्छया (च) (एकम्) (विचक्र) कुर्वन्ति (चमसम्) चमसं मेघमिव गर्जनावन्तं रथम् (चतुर्धा) अधऊर्ध्वतिर्यक्समगतियुक्तम् ॥२॥

    भावार्थः - ये मनुष्याः सुष्ठुहस्तक्रिययोत्तमकर्मणा सर्वतो गमयितारं रथादिकं निर्ममते ते भोज्यपेयासङ्ख्यधनानि प्राप्नुवन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top