Loading...
ऋग्वेद मण्डल - 4 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 35/ मन्त्र 3
    ऋषिः - वामदेवो गौतमः देवता - ऋभवः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत। अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥३॥

    स्वर सहित पद पाठ

    वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒ऽधा । सखे॑ । वि । शि॒क्ष॒ । इति॑ । अ॒ब्र॒वी॒त॒ । अथ॑ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत॑स्य । पन्था॑म् । ग॒णम् । दे॒वाना॑म् । ऋ॒भ॒वः॒ । सु॒ऽह॒स्ताः॒ ॥


    स्वर रहित मन्त्र

    व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत। अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥३॥

    स्वर रहित पद पाठ

    वि। अकृणोत। चमसम्। चतुःऽधा। सखे। वि। शिक्ष। इति। अब्रवीत। अथ। ऐत। वाजाः। अमृतस्य। पन्थाम्। गणम्। देवानाम्। ऋभवः। सुऽहस्ताः ॥३॥

    ऋग्वेद - मण्डल » 4; सूक्त » 35; मन्त्र » 3
    अष्टक » 3; अध्याय » 7; वर्ग » 5; मन्त्र » 3

    अन्वयः - हे सखे ! यथाप्ता विद्वांसो सत्यविद्यां शिक्षन्ते तथा त्वं शिक्ष। हे वाजाः सुहस्ता ऋभवो ! यथा सखायस्तथा यूयं चमसं चतुर्धा व्यकृणोत शास्त्राणि व्यब्रवीत। अथेति देवानां गणममृतस्य पन्थामैत ॥३॥

    पदार्थः -
    (वि) विशेषेण (अकृणोत) (चमसम्) यथा यज्ञसाधनम् (चतुर्धा) (सखे) (वि) (शिक्ष) अत्र व्यत्ययेन परस्मैपदम्। (इति) (अब्रवीत) उपदिशत (अथ) (ऐत) प्राप्नुत (वाजाः) (अमृतस्य) नाशरहितस्य मोक्षस्य (पन्थाम्) (गणम्) समूहम् (देवानाम्) विदुषाम् (ऋभवः) मेधाविनः (सुहस्ताः) ॥३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! परमेश्वरो युष्मान् चतुर्विधं पुरुषार्थं साध्नुतेति ब्रूते यदि सखायो भूत्वा कार्य्यसिद्धये प्रयत्नं कुर्य्युस्तर्हि धर्मार्थकाममोक्षसिद्धिर्युष्मानसंशयं प्राप्नुयात् ॥३॥

    इस भाष्य को एडिट करें
    Top