ऋग्वेद - मण्डल 4/ सूक्त 42/ मन्त्र 10
ऋषिः - त्रसदस्युः पौरुकुत्स्यः
देवता - इन्द्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑। तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥१०॥
स्वर सहित पद पाठरा॒याः । व॒यम् । स॒स॒ऽवांसः॑ । म॒दे॒म॒ । ह॒व्येन॑ । दे॒वाः । यव॑सेन । गावः॑ । ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा॑ । ध॒त्त॒म् । अन॑पऽस्फुरन्तीम् ॥
स्वर रहित मन्त्र
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः। तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥१०॥
स्वर रहित पद पाठराया। वयम्। ससऽवांसः। मदेम। हव्येन। देवाः। यवसेन। गावः। ताम्। धेनुम्। इन्द्रावरुणा। युवम्। नः। विश्वाहा। धत्तम्। अनपऽस्फुरन्तीम् ॥१०॥
ऋग्वेद - मण्डल » 4; सूक्त » 42; मन्त्र » 10
अष्टक » 3; अध्याय » 7; वर्ग » 18; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 18; मन्त्र » 5
विषयः - अथ विद्वद्विषयमाह ॥
अन्वयः - हव्येन देवा यवसेन गावो राया वयं ससवांसो मदेम। हे इन्द्रावरुणा ! युवं विश्वाहानपस्फुरन्तीं तां धेनुं नो धत्तम् ॥१०॥
पदार्थः -
(राया) धनेन (वयम्) (ससवांसः) सुशयाना इव (मदेम) (हव्येन) दातुमादातुमर्हेण (देवाः) विद्वांसः (यवसेन) बुसादिनेव (गावः) (ताम्) (धेनुम्) सर्वकामदोग्ध्रीं वाचम् (इन्द्रावरुणा) अध्यापकोपदेशकौ (युवम्) युवाम् (नः) अस्मभ्यम् (विश्वाहा) सर्वाणि दिनानि (धत्तम्) (अनपस्फुरन्तीम्) दृढां निश्चलां प्रज्ञां सम्पादयन्तीम् ॥१०॥
भावार्थः - हे विद्वांसोऽस्मासु तादृशीं सर्वशास्त्रोक्तपदार्थविषयां वाचं स्थापयत येन वयं सदैवाऽऽनन्दिताः स्यामेति ॥१०॥ अत्र राजेश्वरोपासनाविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥१०॥ इति द्विचत्वारिंशत्तमं सूक्तमष्टादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें