ऋग्वेद - मण्डल 4/ सूक्त 42/ मन्त्र 9
ऋषिः - त्रसदस्युः पौरुकुत्स्यः
देवता - इन्द्रावरुणौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः। अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वम् ॥९॥
स्वर सहित पद पाठपु॒रु॒ऽकुत्सा॑नी । हि । वा॒म् । अदा॑शत् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः । अथ॑ । राजा॑नम् । त्र॒सद॑स्युम् । अ॒स्याः॒ । वृ॒त्र॒ऽहन॑म् । द॒द॒थुः॒ । अ॒र्ध॒ऽदे॒वम् ॥
स्वर रहित मन्त्र
पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः। अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥९॥
स्वर रहित पद पाठपुरुऽकुत्सानी। हि। वाम्। अदाशत्। हव्येभिः। इन्द्रावरुणा। नमःऽभिः। अथ। राजानम्। त्रसदस्युम्। अस्याः। वृत्रऽहनम्। ददथुः। अर्धऽदेवम् ॥९॥
ऋग्वेद - मण्डल » 4; सूक्त » 42; मन्त्र » 9
अष्टक » 3; अध्याय » 7; वर्ग » 18; मन्त्र » 4
अष्टक » 3; अध्याय » 7; वर्ग » 18; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे इन्द्रावरुणा ! या पुरुकुत्सानी हव्येभिर्नमोभिर्युवां सुखमदाशदथास्या वृत्रहणमर्द्धदेवमिव त्रसदस्युं राजानं वां ददथुस्तां तौ हि वयं विजानीमः ॥९॥
पदार्थः -
(पुरुकुत्सानी) पुरूणि कुत्सानि यस्यां सा (हि) यतः (वाम्) युवाम् (अदाशत्) ददाति (हव्येभिः) आदातुमर्हैः (इन्द्रावरुणा) वायुविद्युताविव (नमोभिः) अन्नादिभिः (अथा) अत्र निपातस्य चेति दीर्घः। (राजानम्) (त्रसदस्युम्) त्रस्यन्ति दस्यवो यस्मात्तम् (अस्याः) पृथिव्याः (वृत्रहणम्) यो वृत्रं मेघं हन्ति तम् (ददथुः) दद्यातम् (अर्द्धदेवम्) अर्द्धं जगत् प्रकाशकं सूर्य्यम् ॥९॥
भावार्थः - हे मनुष्या ! यस्य कृपया सकला पृथिवी शस्याढ्या जाता सूर्य्यश्च तं सततमुपाध्वम् ॥९॥
इस भाष्य को एडिट करें