ऋग्वेद - मण्डल 4/ सूक्त 45/ मन्त्र 7
ऋषिः - वामदेवो गौतमः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑। येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥७॥
स्वर सहित पद पाठप्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ । येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥
स्वर रहित मन्त्र
प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति। येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥७॥
स्वर रहित पद पाठप्र। वाम्। अवोचम्। अश्विना। धियम्ऽधाः। रथः। सुऽअश्वः। अजरः। यः। अस्ति। येन। सद्यः। परि। रजांसि। याथः। हविष्मन्तम्। तरणिम्। भोजम्। अच्छ ॥७॥
ऋग्वेद - मण्डल » 4; सूक्त » 45; मन्त्र » 7
अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 7
अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 7
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अश्विना ! यः स्वश्वोऽजरो रथोऽस्ति तद्विद्या धियन्धा अहं वां प्रावोचं येन युवां हविष्मन्तं तरणिं भोजं रजांसि सद्योऽच्छ परियाथः ॥७॥
पदार्थः -
(प्र) (वाम्) युवाम् (अवोचम्) उपदिशेयम् (अश्विना) अध्यापकोपदेशकौ (धियन्धाः) यो धियं प्रज्ञां शिल्पविद्यां कर्म दधाति (रथः) रमणीययानः (स्वश्वः) शोभनाश्वः (अजरः) (यः) (अस्ति) (येन) (सद्यः) शीघ्रम् (परि) (रजांसि) लोकानैश्वर्य्याणि वा (याथः) गच्छथः (हविष्मन्तम्) बहुसामग्रीयुक्तम् (तरणिम्) तारकम् (भोजम्) भोक्तुं योग्यम् (अच्छ) ॥७॥
भावार्थः - हे मनुष्या ! विद्वांसो वयं युष्मान् याः शिल्पविद्या ग्राहयेम ताभिर्यूयं विमानादीनि यानानि निर्माय सद्यो गमनागमने कृत्वा पुष्कलान् भोगान् प्राप्नुतेति ॥७॥ अत्र सूर्याश्विगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥७॥ इति पञ्चचत्वारिंशत्तमं सूक्तमेकविंशो वर्गश्चतुर्थोऽनुवाकश्च समाप्तः ॥
इस भाष्य को एडिट करें