Loading...
ऋग्वेद मण्डल - 4 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 48/ मन्त्र 5
    ऋषिः - वामदेवो गौतमः देवता - वायु: छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम्। उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥५॥

    स्वर सहित पद पाठ

    वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् । उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥


    स्वर रहित मन्त्र

    वायो शतं हरीणां युवस्व पोष्याणाम्। उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥५॥

    स्वर रहित पद पाठ

    वायो इति शतम्। हरीणाम्। युवस्व। पोष्याणाम्। उत। वा। ते। सहस्रिणः। रथः। आ। यातु। पाजसा ॥५॥

    ऋग्वेद - मण्डल » 4; सूक्त » 48; मन्त्र » 5
    अष्टक » 3; अध्याय » 7; वर्ग » 24; मन्त्र » 5

    अन्वयः - हे वायो राजंस्त्वं पोष्याणां हरीणां शतं युवस्वोत वा सहस्रिणस्ते पाजसा रथ आयातु ॥५॥

    पदार्थः -
    (वायो) (राजन्) (शतम्) असङ्ख्यम् (हरीणाम्) मनुष्याणाम् (युवस्व) कर्मसु प्रेर्स्व (पोष्याणाम्) पोषितुं योग्यानाम् (उत) (वा) (ते) तव (सहस्रिणः) असङ्ख्यपुरुषधनयुक्तस्य (रथः) (आ) (यातु) समन्तात्प्राप्नोतु (पाजसा) बलेन ॥५॥

    भावार्थः - हे राजन् ! यदि राज्यं कर्त्तुमिच्छेस्तर्हि सुसहायान् गृहाणेति ॥५॥ अत्र राजगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥५॥ इत्यष्टचत्वारिंशत्तमं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top