ऋग्वेद - मण्डल 4/ सूक्त 56/ मन्त्र 5
ऋषिः - वामदेवो गौतमः
देवता - द्यावापृथिव्यौ
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे। शुची॒ उप॒ प्रश॑स्तये ॥५॥
स्वर सहित पद पाठप्र । वा॒म् । महि॑ । द्यवी॒ इति॑ । अ॒भि । उप॑ऽस्तुतिम् । भ॒रा॒म॒हे॒ । शुची॒ इति॑ । उप॑ । प्रऽश॑स्तये ॥
स्वर रहित मन्त्र
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे। शुची उप प्रशस्तये ॥५॥
स्वर रहित पद पाठप्र। वाम्। महि। द्यवी इति। अभि। उपऽस्तुतिम्। भरामहे। शुची इति। उप। प्रऽशस्तये ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 56; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 5
विषयः - अथ शिल्पविद्याशिक्षामाह ॥
अन्वयः - हे शिल्पविद्याप्रवीणौ ! यतो वयं प्रशस्तये शुची महि द्यवी अभ्युप प्रभरामहे तस्माद् वामुपस्तुतिं कुर्महे ॥५॥
पदार्थः -
(प्र) (वाम्) युवयोरध्यापकक्रियाकर्त्रोः (महि) महागुणे (द्यवी) द्योतमाने (अभि) (उपस्तुतिम्) उपमितां प्रशंसाम् (भरामहे) धरामहे (शुची) पवित्रे (उप) (प्रशस्तये) ॥५॥
भावार्थः - येषां सकाशाच्छिल्पादिविद्या गृह्यन्ते तेषां मान्यं मनुष्याः सदा कुर्वन्तु ॥५॥
इस भाष्य को एडिट करें