ऋग्वेद - मण्डल 4/ सूक्त 56/ मन्त्र 6
ऋषिः - वामदेवो गौतमः
देवता - द्यावापृथिव्यौ
छन्दः - विराड्गायत्री
स्वरः - षड्जः
पु॒ना॒ने त॒न्वा॑ मि॒थः स्वेन॒ दक्षे॑ण राजथः। ऊ॒ह्याथे॑ स॒नादृ॒तम् ॥६॥
स्वर सहित पद पाठपु॒ना॒ने इति॑ । त॒न्वा॑ । मि॒थः । स्वेन॑ । दक्षे॑ण । रा॒ज॒थः॒ । ऊ॒ह्याथे॒ इति॑ । स॒नात् । ऋ॒तम् ॥
स्वर रहित मन्त्र
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः। ऊह्याथे सनादृतम् ॥६॥
स्वर रहित पद पाठपुनाने इति। तन्वा। मिथः। स्वेन। दक्षेण। राजथः। ऊह्याथे इति। सनात्। ऋतम् ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 56; मन्त्र » 6
अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 6
अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - यौ शिल्पविद्यापकाऽध्येतारौ स्वेन दक्षेण तन्वा पुनाने विदित्वा मिथो राजथः सनाद् ऋतमूह्याथे तौ सत्कर्त्तव्यौ भवथः ॥६॥
पदार्थः -
(पुनाने) पवित्रकारिके (तन्वा) शरीरेण (मिथः) परस्परम् (स्वेन) स्वकीयेन (दक्षेण) बलयुक्तेन (राजथः) (ऊह्याथे) वितर्कयथः (सनात्) सनातनात् (ऋतम्) सत्यम् ॥६॥
भावार्थः - ये शिल्पविद्यायां निपुणा जायन्ते तेषां सत्कारो यथायोग्यं राजादिभिः कर्त्तव्यः ॥६॥
इस भाष्य को एडिट करें