Loading...
ऋग्वेद मण्डल - 4 के सूक्त 56 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 56/ मन्त्र 7
    ऋषिः - वामदेवो गौतमः देवता - द्यावापृथिव्यौ छन्दः - गायत्री स्वरः - षड्जः

    म॒ही मि॒त्रस्य॑ साधथ॒स्तर॑न्ती॒ पिप्र॑ती ऋ॒तम्। परि॑ य॒ज्ञं नि षे॑दथुः ॥७॥

    स्वर सहित पद पाठ

    म॒ही इति॑ । मि॒त्रस्य॑ । सा॒ध॒थः॒ । तर॑न्ती॒ इति॑ । पिप्र॑ती॒ इति॑ । ऋ॒तम् । परि॑ । य॒ज्ञम् । नि । से॒द॒थुः॒ ॥


    स्वर रहित मन्त्र

    मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम्। परि यज्ञं नि षेदथुः ॥७॥

    स्वर रहित पद पाठ

    मही इति। मित्रस्य। साधथः। तरन्ती इति। पिप्रती इति। ऋतम्। परि। यज्ञम्। नि। सेदथुः ॥७॥

    ऋग्वेद - मण्डल » 4; सूक्त » 56; मन्त्र » 7
    अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 7

    अन्वयः - हे विद्वांसो ! ये तरन्ती पिप्रती मही ऋतं यज्ञं परि नि षेदथुर्मित्रस्य कार्याणि साधथस्ते यथावद्विज्ञाय सम्प्रयुग्ध्वम् ॥७॥

    पदार्थः -
    (मही) महत्यौ (मित्रस्य) सर्वस्य सुहृदः (साधथः) साध्नुतः। अत्र व्यत्ययः। (तरन्ती) दुःखं प्लावयन्त्यौ (पिप्रती) सर्वानन्दं प्रपूरयन्त्यौ (ऋतम्) सत्यं कारणम् (परि) सर्वतः (यज्ञम्) सङ्गन्तव्यम् (नि) (सेदथुः) निषीदतः ॥७॥

    भावार्थः - मनुष्यैः सर्वाधारे सर्वकार्यसाधिके द्यावापृथिवी विज्ञायाभीष्टानि कार्याणि साधनीयानीति ॥७॥ अत्र द्यावापृथिव्योर्गुणशिल्पविद्याशिक्षावर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥७॥ इति षट्पञ्चाशत्तमं सूक्तमष्टमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top