ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 8
तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत्। उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥८॥
स्वर सहित पद पाठतव॑ । द्यु॒ऽमन्तः॑ । अ॒र्चयः॑ । ग्रावा॑ऽइव । उ॒च्य॒ते॒ । बृ॒हत् । उ॒तो इति॑ । ते॒ । त॒न्य॒तुः । य॒था॒ । स्वा॒नः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥
स्वर रहित मन्त्र
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्। उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥८॥
स्वर रहित पद पाठतव। द्युऽमन्तः। अर्चयः। ग्रावाऽइव। उच्यते। बृहत्। उतो इति। ते। तन्यतुः। यथा। स्वानः। अर्त। त्मना। दिवः ॥८॥
ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 8
अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 3
विषयः - अथ मेघदृष्टान्तेन विद्वद्विषयमाह ॥
अन्वयः - हे विद्वँस्तव द्युमन्तो येऽर्चयः सन्ति ताभिर्यद् ग्रावेव बृहदुच्यते उतो ते यथा तन्यतुस्तथा स्वानो वर्त्तते ततस्त्मना दिवो यूयं सर्वेऽर्त्त ॥८॥
पदार्थः -
(तव) (द्युमन्तः) बहुप्रकाशवन्तः (अर्चयः) किरणाः (ग्रावेव) मेघ इव (उच्यते) (बृहत्) महत्सत्यम् (उतो) अपि (ते) तव (तन्यतुः) विद्युत् (यथा) (स्वानः) शब्दः (अर्त्त) प्राप्नुत (त्मना) आत्मना (दिवः) कामयमानान् पदार्थान् ॥८॥
भावार्थः - अत्रोपमालङ्कारः । ये मेघवद् गम्भीरशब्देन गूढार्थानुपविशन्ति विद्युद्वत्पुरुषार्थयन्ति ते सर्वाणि सुखानि लभन्ते ॥८॥
इस भाष्य को एडिट करें