ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 9
ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम। स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥९॥
स्वर सहित पद पाठए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ । सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥
स्वर रहित मन्त्र
एवाँ अग्निं वसूयवः सहसानं ववन्दिम। स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥
स्वर रहित पद पाठएव। अग्निम्। वसुऽयवः। सहसानम्। ववन्दिम। सः। नः। विश्वाः। अति। द्विषः। पर्षत्। नावाऽइव। सुऽक्रतुः ॥९॥
ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 9
अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 4
विषयः - पुनर्विद्वद्विषयमाह ॥
अन्वयः - हे विद्वन् ! वसूयवो वयमग्निमिव सहसानं त्वां ववन्दिम स एवा सुक्रतुर्भवान्नावेव नो विश्वा द्विषोऽति पर्षत् ॥९॥
पदार्थः -
(एवा) निश्चये (अग्निम्) विद्युतमिव विद्वांसम् (वसूयवः) आत्मनो वस्विच्छवः (सहसानम्) यः सर्वं सहते तम् (ववन्दिम) प्रशंसेम (सः) (नः) अस्माकम् (विश्वाः) समग्राः (अति) (द्विषः) द्वेषयुक्ताः क्रियाः (पर्षत्) पारयेत् (नावेव) यथा नौकया समुद्रम् (सुक्रतुः) सुष्ठुप्रज्ञः सुकर्मा वा ॥९॥
भावार्थः - अत्रोपमालङ्कारः । यथा महत्या नौकया समुद्रादिपारं सुखेन गच्छन्ति तथैव विद्वत्सङ्गेन सर्वेभ्यो दोषेभ्यस्सहजतया दूरं प्राप्नुवन्तीति ॥९॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चविंशतितमं सूक्तमष्टादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें