ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 10
ऋषिः - अमहीयुः
देवता - इन्द्रः, इन्द्र कुत्सो वा, इन्द्र उशना वा
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः। विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥१०॥
स्वर सहित पद पाठवात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥
स्वर रहित मन्त्र
वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः। विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥१०॥
स्वर रहित पद पाठवातस्य। युक्तान्। सुऽयुजः। चित्। अश्वान्। कविः। चित्। एषः। अजगन्। अवस्युः। विश्वे। ते। अत्र। मरुतः। सखायः। इन्द्र। ब्रह्माणि। तविषीम्। अवर्धन् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 10
अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 5
अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे इन्द्र ! ये तेऽत्र सखायो विश्वे मरुतो ब्रह्माणि तविषीं चावर्धन् वातस्य युक्तान् सुयुजश्चिदश्वानजगन् गमयेयुस्तानेषोऽवस्युः कविश्चिद्भवान् सततं सत्कुर्यात् ॥१०॥
पदार्थः -
(वातस्य) वायोर्वेगेन (युक्तान्) (सुयुजः) ये सुष्ठु युञ्जते तान् (चित्) अपि (अश्वान्) आशुगामिनोऽग्न्यादीन् (कविः) मेधावी (चित्) अपि (एषः) वर्त्तमानः (अजगन्) गमयेयुः (अवस्युः) आत्मनोऽवो रक्षणमिच्छुः (विश्वे) सर्वे (ते) तव (अत्र) अस्मिञ्छिल्पविद्याकर्मणि (मरुतः) ऋत्विजो विद्वांसः (सखायः) सुहृदः (इन्द्र) विद्वन् (ब्रह्माणि) धनान्यन्नानि वा (तविषीम्) सेनाम् (अवर्धन्) वर्धयन्ति ॥१०॥
भावार्थः - हे ऐश्वर्यमिच्छुक ! येऽग्न्यादिपदार्थविद्ययाऽद्भुतानि यानादिकार्य्याणि साद्धुं शक्नुवन्ति तैः सह मैत्रीं कृत्वा विद्यां प्राप्याभीष्टानि कार्य्याणि साधयन् भवान् महदैश्वर्य्यं प्राप्नुयात् ॥१०॥
इस भाष्य को एडिट करें