Loading...
ऋग्वेद मण्डल - 5 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 9
    ऋषिः - अमहीयुः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु। निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥९॥

    स्वर सहित पद पाठ

    इन्द्रा॑कुत्सा । वह॑माना । रथे॑न । आ । वा॒म् । अत्याः॑ । अपि॑ । कर्णे॑ । व॒ह॒न्तु॒ । निः । सी॒म् । अ॒त्ऽभ्यः । धम॑थः । निः । स॒धऽस्था॑त् । म॒घोनः॑ । हृ॒दः । व॒र॒थः॒ । तमां॑सि ॥


    स्वर रहित मन्त्र

    इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु। निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥९॥

    स्वर रहित पद पाठ

    इन्द्राकुत्सा। वहमाना। रथेन। आ। वाम्। अत्याः। अपि। कर्णे। वहन्तु। निः। सीम्। अत्ऽभ्यः। धमथः। निः। सधऽस्थात्। मघोनः। हृदः। वरथः। तमांसि ॥९॥

    ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 9
    अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 4

    अन्वयः - हे अध्यापकोपदेशकौ ! यथेन्द्राकुत्सा रथेन वहमाना स्तः विद्वांसः कर्णे वामा वहन्तु तथाऽत्या अपि सर्वान् वोढुं शक्नुवन्ति यदि विद्युदग्नी अद्भ्यो निर्धमथस्तर्हि तौ सधस्थात् सीमावहतो यदि हृदो मघोनो निर्वरथस्तर्हि सुखेन तमांसि गमयितुं शक्नुयातम् ॥९॥

    पदार्थः -
    (इन्द्राकुत्सा) इन्द्रश्च कुत्सश्चेन्द्राकुत्सौ विद्युदाघातौ (वहमाना) प्रापयन्तौ (रथेन) यानेन (आ) (वाम्) युवयोः (अत्याः) सततं गामिनोऽश्वाः (अपि) (कर्णे) कुर्वन्ति येन तस्मिन् (वहन्तु) गमयन्तु (निः) नितराम् (सधस्थात्) सह स्थानात् (मघोनः) धनाढ्यान् (हृदः) हृद इव प्रियान् (वरथः) स्वीकुरुथः (तमांसि) रात्रीः ॥९॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यद्यग्निजलसंयोगं कृत्वा सन्धम्य वाष्पेन यन्त्रकलाः संहृत्य यानादीनि चालयेयुस्तर्हि स्वयं सखींश्च धनाढ्यान् कृत्वा दुःखेभ्यः पारं गच्छेयुर्गमयेयुर्वा ॥९॥

    इस भाष्य को एडिट करें
    Top