ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 8
त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इ॑न्द्र। उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनार॑न्त दे॒वाः ॥८॥
स्वर सहित पद पाठत्वम् । अ॒पः । यद॑वे । तु॒र्वशा॒य । अर॑मयः । सु॒ऽदुघाः॑ । पा॒रः । इ॒न्द्र॒ । उ॒ग्रम् । अ॒या॒त॒म् । अव॑हः । ह॒ । कुत्स॑म् । सम् । ह॒ । यत् । वा॒म् । उ॒शना॑ । अर॑न्त । दे॒वाः ॥
स्वर रहित मन्त्र
त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र। उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारन्त देवाः ॥८॥
स्वर रहित पद पाठत्वम्। अपः। यदवे। तुर्वशाय। अरमयः। सुऽदुघाः। पारः। इन्द्र। उग्रम्। अयातम्। अवहः। ह। कुत्सम्। सम्। ह। यत्। वाम्। उशना। अरन्त। देवाः ॥८॥
ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 8
अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे इन्द्र ! पारः सँस्त्वं तुर्वशाय यदेव सुदुघा अपोऽरमय उग्रमयातं कुत्सं ह समवहः यद् यत्रोशना देवा अरन्त तत्र ह वां रमयेयुः ॥८॥
पदार्थः -
(त्वम्) (अपः) जलानीव कर्माणि (यदवे) मनुष्याय (तुर्वशाय) सद्यो वशकरणसमर्थाय (अरमयः) रमय (सुदुघाः) सुष्ठु दोग्धुमर्हाः (पारः) यः पारयिता (इन्द्र) परमैश्वर्य्यप्रद (उग्रम्) दुर्जयम् (अयातम्) अप्राप्तम् (अवहः) प्राप्नुहि (ह) किल (कुत्सम्) (सम्) (ह) (यत्) (वाम्) युवाम् (उशना) कामयमानाः (अरन्त) रमन्ताम् (देवाः) विद्वांसः ॥८॥
भावार्थः - ऐश्वर्य्यवान् मनुष्योऽन्येभ्यो धनधान्यादिकं दद्याद्यत्र विद्वांसो रमेरंस्तत्रैव सर्वे क्रीडेरन् ॥८॥
इस भाष्य को एडिट करें