Loading...
ऋग्वेद मण्डल - 5 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 7
    ऋषिः - अमहीयुः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः। शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥७॥

    स्वर सहित पद पाठ

    तत् । इत् । नु । ते॒ । कर॑णम् । द॒स्म॒ । वि॒प्र॒ । अहि॑म् । यत् । घ्नन् । ओजः॑ । अत्र॑ । अमि॑मीथाः । शुष्ण॑स्य । चि॒त् । परि॑ । मा॒याः । अ॒गृ॒भ्णाः॒ । प्र॒ऽपि॒त्वम् । यन् । अप॑ । दस्यू॑न् । अ॒से॒धः॒ ॥


    स्वर रहित मन्त्र

    तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः। शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः ॥७॥

    स्वर रहित पद पाठ

    तत्। इत्। नु। ते। करणम्। दस्म। विप्र। अहिम्। यत्। घ्नन्। ओजः। अत्र। अमिमीथाः। शुष्णस्य। चित्। परि। मायाः। अगृभ्णाः। प्रऽपित्वम्। यन्। अप। दस्यून्। असेधः ॥७॥

    ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 7
    अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 2

    अन्वयः - हे दस्म विप्र ! भवान् सूर्योऽहिं हन्ति अत्रौजो यन्निपातयति तत्करणं यथा तथा शत्रुबलं घ्नन्नत्र त्वं शुष्णस्य वृद्धिममिमीथाश्चिदपि मायाः पर्यगृभ्णाः प्रपित्वं यन् दस्यूनपासेधस्तस्मै ते तुभ्यं न्वित् सुखं प्राप्नुयात् ॥७॥

    पदार्थः -
    (तत्) (इत्) एव (नु) (ते) तव (करणम्) करोति येन तत् (दस्म) उपक्षेतः (विप्र) मेधाविन् (अहिम्) मेघमिव दोषान् (यत्) (घ्नन्) विनाशयन् (ओजः) जलमिव बलम् (अत्र) अस्मिन् जगति (अमिमीथाः) निर्माणं कुर्याः (शुष्णस्य) बलस्य (चित्) अपि (परि) (मायाः) प्रज्ञाः (अगृभ्णाः) गृहाण (प्रपित्वम्) प्राप्तिम् (यन्) (अप) (दस्यून्) दुष्टान् (असेधः) निवारयतु ॥७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वन् ! यथेश्वरेण सूर्य्यमेघसम्बन्धो निर्मितस्तथैवान्येऽपि बहवः सम्बन्धा रचिता इति वेद्यम् ॥७॥

    इस भाष्य को एडिट करें
    Top