Loading...
ऋग्वेद मण्डल - 5 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 6
    ऋषिः - अमहीयुः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑। शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥६॥

    स्वर सहित पद पाठ

    प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वो॒च॒म् । प्र । नूत॑ना । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ । शक्ति॑ऽवः । यत् । वि॒ऽभराः॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जय॑न् । अ॒पः । मन॑वे । दानु॑ऽचित्राः ॥


    स्वर रहित मन्त्र

    प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ। शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥६॥

    स्वर रहित पद पाठ

    प्र। ते। पूर्वाणि। करणानि। वोचम्। प्र। नूतना। मघऽवन्। या। चकर्थ। शक्तिऽवः। यत्। विऽभराः। रोदसी इति। उभे इति। जयन्। अपः। मनवे। दानुऽचित्राः ॥६॥

    ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 6
    अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 1

    अन्वयः - हे शक्तीवो मघवन् राजन् ! विपश्चितो यद्या पूर्वाणि करणानि या नूतना प्र साध्नुवन्ति तान्यहं ते तथा प्र वोचं ये विभरा दानुचित्रा विद्वांसो मनव उभे रोदसी विज्ञापयन्ति तैः सह त्वं मनवेऽपो जयँस्तेषां सुखाय सत्कारं चकर्थ ॥६॥

    पदार्थः -
    (प्र) (ते) तुभ्यम् (पूर्वाणि) प्राचीनानि (करणानि) कुर्वन्ति यैस्तानि साधनानि (वोचम्) उपदिशेयम् (प्र) (नूतना) नवीनानि (मघवन्) पूजितैश्वर्य (या) यानि (चकर्थ) करोषि (शक्तीवः) शक्तिर्बहुविधं सामर्थ्यं विद्यते यस्य तत्सम्बुद्धौ (यत्) यथा (विभराः) ये विशेषेण विभरन्ति पोषयन्ति ते (रोदसी) द्यावापृथिव्यौ (उभे) (जयन्) (अपः) सूर्यो जलानीव शत्रुप्राणान् (मनवे) मनुष्याय (दानुचित्राः) चित्राण्यद्भुतानि दानानि येषान्ते ॥६॥

    भावार्थः - हे राजादयो जना ! ये विद्वांसो युष्मान् सनातनीं राजनीतिं विजयोपायाँश्च शिक्षेरँस्तान् स्वात्मवद्भवन्तः सत्कुर्वन्तु ॥६॥

    इस भाष्य को एडिट करें
    Top