Loading...
ऋग्वेद मण्डल - 5 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 12
    ऋषिः - अमहीयुः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन्। वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥१२॥

    स्वर सहित पद पाठ

    आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒ऽचक्षे॑ । ज॒गा॒म॒ । इन्द्रः॑ । सखा॑यम् । सु॒तऽसो॑मम् । इ॒च्छन् । वद॑न् । ग्रावा॑ । अव॑ । वेदि॑म् । भ्रि॒या॒ते॒ । यस्य॑ । जी॒रम् । अ॒ध्व॒र्यवः॑ । चर॑न्ति ॥


    स्वर रहित मन्त्र

    आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन्। वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥१२॥

    स्वर रहित पद पाठ

    आ। अयम्। जनाः। अभिऽचक्षे। जगाम। इन्द्रः। सखायम्। सुतऽसोमम्। इच्छन्। वदन्। ग्रावा। अव। वेदिम्। भ्रियाते। यस्य। जीरम्। अध्वर्यवः। चरन्ति ॥१२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 12
    अष्टक » 4; अध्याय » 1; वर्ग » 31; मन्त्र » 2

    अन्वयः - हे जना ! योऽयमिन्द्रोऽभिचक्षे सुतसोमं सखायमिच्छन् ग्रावेव वदन् वेदिमवा जगाम यस्य जीरमध्वर्यवश्चरन्ति यौ द्वौ शिल्पविद्या भ्रियाते तौ सदैव भवन्तः सत्कुर्वन्तु ॥१२॥

    पदार्थः -
    (आ) (अयम्) (जनाः) प्रसिद्धा विद्वांसः (अभिचक्षे) अभितः ख्यातुम् (जगाम) गच्छेत् (इन्द्रः) ऐश्वर्य्यवान् (सखायम्) मित्रम् (सुतसोमम्) निष्पादितपदार्थविद्यम् (इच्छन्) (वदन्) उपदिशन् (ग्रावा) गर्जनायुक्तो मेघ इव (अव) (वेदिम्) अग्निस्थानम् (भ्रियाते) धरेताम् (यस्य) (जीरम्) वेगम् (अध्वर्यवः) विद्यायज्ञसम्पादकाः (चरन्ति) ॥१२॥

    भावार्थः - ये मनुष्या विद्याप्राप्तये विद्यादानाय वा सर्वैः सह मैत्रीं कृत्वा सङ्गच्छेरँस्ते सर्वां विद्यां प्राप्तुं शक्नुयुः ॥१२॥

    इस भाष्य को एडिट करें
    Top