ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 13
ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न्। वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥१३॥
स्वर सहित पद पाठये । चा॒कन॑न्त । चा॒कन॑न्त । नु । ते । मर्ताः॑ । अ॒मृ॒त॒ । मो इति॑ । ते । अंहः॑ । आ । अ॒र॒न् । व॒व॒न्धि । यज्यू॑न् । उ॒त । तेषु॑ । धे॒हि॒ । ओजः॑ । जने॑षु । येषु॑ । ते॒ । स्याम॑ ॥
स्वर रहित मन्त्र
ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन्। वावन्धि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥१३॥
स्वर रहित पद पाठये। चाकनन्त। चाकनन्त। नु। ते। मर्ताः। अमृत। मो इति। ते। अंहः। आ। अरन्। ववन्धि। यज्यून्। उत। तेषु। धेहि। ओजः। जनेषु। येषु। ते। स्याम ॥१३॥
ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 13
अष्टक » 4; अध्याय » 1; वर्ग » 31; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 31; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अमृत विद्वन् ! ये विद्याविनयसत्याचाराश्चाकनन्तान्यार्थमपि चाकनन्त ते मर्त्ताः सत्यं नू चाकनन्त तेंऽहो मो आरन् त उत यज्यून् वावन्धि येषु जनेषु वयं ते तव सखायः स्याम तेष्वस्मासु त्वमोजो धेहि ॥१३॥
पदार्थः -
(ये) (चाकनन्त) कामयन्ते (चाकनन्त) (नू) सद्यः (ते) (मर्त्ताः) मनुष्याः (अमृत) आत्मस्वरूपेण मरणधर्मरहित (मो) (ते) (अंहः) अपराधम् (आ) (अरन्) समन्तात् प्राप्नुयुः (वावन्धि) बध्नन्ति (यज्यून्) सत्यभाषणादियज्ञानुष्ठातॄन् (उत) अपि (तेषु) (धेहि) (ओजः) पराक्रमम् (जनेषु) सत्याचरणेषु मनुष्येषु (येषु) (ते) तव (स्याम) भवेम ॥१३॥
भावार्थः - हे विद्वांसो ! ये विद्यासत्याचरणपरोपकारानधर्म्माचरणराहित्यं च कामयित्वा सर्वोपकारमिच्छेयुस्ते धन्याः सन्तु वयमपीदृशाः स्यामेतीच्छामेति ॥१३॥ अत्रेन्द्रविद्वच्छिल्पगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकत्रिंशत्तमं सूक्तमेकत्रिंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें