ऋग्वेद - मण्डल 5/ सूक्त 46/ मन्त्र 2
ऋषिः - सदापृण आत्रेयः
देवता - विश्वेदेवा:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो। उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ॥२॥
स्वर सहित पद पाठअग्ने॑ । इन्द्र॑ । वरु॑ण । मित्र॑ । देवाः॑ । शर्धः॑ । प्र । य॒न्त॒ । मारु॑त । उ॒त । वि॒ष्णो॒ इति॑ । उ॒भा । नास॑त्या । रु॒द्रः । अध॑ । ग्नाः । पू॒षा । भगः॑ । सर॑स्वती । जु॒ष॒न्त॒ ॥
स्वर रहित मन्त्र
अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो। उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥२॥
स्वर रहित पद पाठअग्ने। इन्द्र। वरुण। मित्र। देवाः। शर्धः। प्र। यन्त। मारुत। उत। विष्णो इति। उभा। नासत्या। रुद्रः। अध। ग्नाः। पूषा। भगः। सरस्वती। जुषन्त ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 46; मन्त्र » 2
अष्टक » 4; अध्याय » 2; वर्ग » 28; मन्त्र » 2
अष्टक » 4; अध्याय » 2; वर्ग » 28; मन्त्र » 2
विषयः - मनुष्यैर्विद्युदादिविद्यावश्यं स्वीकार्येत्याह ॥
अन्वयः - हे इन्द्राग्ने वरुण मित्र मारुत देवा ! भवन्तः शर्धः प्र यन्त। उत हे विष्णो ! उभा नासत्या रुद्रो भगः पूषाध सरस्वती च ग्ना जुषन्त ॥२॥
पदार्थः -
(अग्ने) विद्वन् (इन्द्र) परमैश्वर्य्ययुक्त (वरुण) श्रेष्ठ (मित्र) सुहृत् (देवाः) विद्वांसः (शर्धः) बलम् (प्र) (यन्त) प्राप्नुवन्ति (मारुत) मरुतां मनुष्याणां मध्ये विदित (उत) अपि (विष्णो) व्यापनशीलम् (उभा) उभौ (नासत्या) अविद्यमानासत्याचरणौ (रुद्रः) दुष्टानां भयङ्करः (अध) (ग्नाः) वाणी (पूषा) पुष्टिकर्त्ताः वायुः (भगः) ऐश्वर्यवान् (सरस्वती) सुशिक्षिता वाणी (जुषन्त) सेवन्ताम् ॥२॥
भावार्थः - हे मनुष्या ! भवद्भिर्विद्याशरीरबलयोगवृद्धिं कृत्वाऽग्न्यादिविद्या स्वीकार्य्या ॥२॥
इस भाष्य को एडिट करें