Loading...
ऋग्वेद मण्डल - 5 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 46/ मन्त्र 3
    ऋषिः - प्रतिक्षत्र आत्रेयः देवता - विश्वेदेवा: छन्दः - भुरिग्जगती स्वरः - निषादः

    इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः। हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भ॒गं नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥३॥

    स्वर सहित पद पाठ

    इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॒णा । अदि॑तिम् । स्वरिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः । हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥


    स्वर रहित मन्त्र

    इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः। हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥३॥

    स्वर रहित पद पाठ

    इन्द्राग्नी इति। मित्रावरुणा। अदितिम्। स्वरिति स्वः। पृथिवीम्। द्याम्। मरुतः। पर्वतान्। अपः। हुवे। विष्णुम्। पूषणम्। ब्रह्मणः। पतिम्। भगम्। नु। शंसम्। सवितारम्। ऊतये ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 46; मन्त्र » 3
    अष्टक » 4; अध्याय » 2; वर्ग » 28; मन्त्र » 3

    अन्वयः - हे मनुष्या ! यथाहमूतय इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वतानपो विष्णुं पूषणं ब्रह्मणस्पतिं भगं शंसं सवितारं हुवे तथा यूयमपि न्वेतानाह्वयत ॥३॥

    पदार्थः -
    (इन्द्राग्नी) सूर्य्यविद्युतौ (मित्रावरुणा) प्राणोदानौ (अदितिम्) अन्तरिक्षम् (स्वः) आदित्यम् (पृथिवीम्) भूमिम् (द्याम्) प्रकाशम् (मरुतः) वायून् मनुष्यान् वा (पर्वतान्) मेघान् शैलान् वा (अपः) जलानि (हुवे) आदद्मि (विष्णुम्) व्यापकं धनं जयं वा (पूषणम्) पुष्टिकरं व्यानम् (ब्रह्मणः) ब्रह्माण्डस्य (पतिम्) पालकं सूत्रात्मानम् (भगम्) ऐश्वर्य्यम् (नु) सद्यः (शंसम्) प्रशंसनीयम् (सवितारम्) जगदुत्पादकं परमात्मानम् (ऊतये) रक्षादिव्यवहारसिद्धये ॥३॥

    भावार्थः - मनुष्यैर्विद्युदादिविद्यावश्यं स्वीकार्य्या ॥३॥

    इस भाष्य को एडिट करें
    Top