Loading...
ऋग्वेद मण्डल - 5 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 65/ मन्त्र 4
    ऋषिः - रातहव्य आत्रेयः देवता - मित्रावरुणौ छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते। मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥४॥

    स्वर सहित पद पाठ

    मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ । मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥


    स्वर रहित मन्त्र

    मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते। मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥४॥

    स्वर रहित पद पाठ

    मित्रः। अंहोः। चित्। आत्। उरु। क्षयाय। गातुम्। वनते। मित्रस्य। हि। प्रऽतूर्वतः। सुऽमतिः। अस्ति। विधतः ॥४॥

    ऋग्वेद - मण्डल » 5; सूक्त » 65; मन्त्र » 4
    अष्टक » 4; अध्याय » 4; वर्ग » 3; मन्त्र » 4

    अन्वयः - हे मनुष्या ! यो मित्रोंऽहोश्चिद्वियोज्याऽऽदुरु क्षयाय गातुं वनते स हि प्रतूर्वतो विधतो मित्रस्य या सुमतिरस्ति तां गृह्णीयात् ॥४॥

    पदार्थः -
    (मित्रः) सखा (अंहोः) दुष्टाचारात् (चित्) (आत्) (उरु) बहु (क्षयाय) निवासाय (गातुम्) पृथिवीम् (वनते) सम्भजति (मित्रस्य) (हि) खलु (प्रतूर्वतः) शीघ्रं कर्त्तुः (सुमतिः) उत्तमप्रज्ञा (अस्ति) (विधतः) परिचरतः ॥४॥

    भावार्थः - त एव सखायः सन्ति ये निष्कापट्येन शुद्धभावेन परस्परैः सह वर्त्तन्ते ॥४॥

    इस भाष्य को एडिट करें
    Top