Loading...
ऋग्वेद मण्डल - 5 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 65/ मन्त्र 5
    ऋषिः - रातहव्य आत्रेयः देवता - मित्रावरुणौ छन्दः - स्वराडुष्निक् स्वरः - ऋषभः

    व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे। अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥५॥

    स्वर सहित पद पाठ

    व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे । अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥


    स्वर रहित मन्त्र

    वयं मित्रस्यावसि स्याम सप्रथस्तमे। अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥५॥

    स्वर रहित पद पाठ

    वयम्। मित्रस्य। अवसि। स्याम। सप्रथःऽतमे। अनेहसः। त्वाऽऊतयः। सत्रा। वरुणऽशेषसः ॥५॥

    ऋग्वेद - मण्डल » 5; सूक्त » 65; मन्त्र » 5
    अष्टक » 4; अध्याय » 4; वर्ग » 3; मन्त्र » 5

    अन्वयः - हे मनुष्या ! यथाऽनेहसस्त्वोतयो वरुणशेषसो वयं सत्रा मित्रस्य सप्रथस्तमेऽवसि स्याम ॥५॥

    पदार्थः -
    (वयम्) (मित्रस्य) (अवसि) रक्षणादौ कर्मणि (स्याम) प्रवृत्ता भवेम (सप्रथस्तमे) अतिविस्तारयुक्ते (अनेहसः) अहिंसकाः सन्तः (त्वोतयः) त्वया रक्षिताः (सत्रा) सत्येन युक्ताः (वरुणशेषसः) वरुण उत्तमो जनः शेषो येषान्ते ॥५॥

    भावार्थः - मनुष्यैः सर्वदा कृतज्ञता भाव्या कृतघ्नता च दूरतस्त्याज्या ॥५॥

    इस भाष्य को एडिट करें
    Top