Loading...
ऋग्वेद मण्डल - 5 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 65/ मन्त्र 6
    ऋषिः - रातहव्य आत्रेयः देवता - मित्रावरुणौ छन्दः - अनुष्टुप् स्वरः - गान्धारः

    यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः। मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥६॥

    स्वर सहित पद पाठ

    यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ । मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥


    स्वर रहित मन्त्र

    युवं मित्रेमं जनं यतथः सं च नयथः। मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥६॥

    स्वर रहित पद पाठ

    युवम्। मित्रा। इमम्। जनम्। यतयः। सम्। च। नयथः। मा। मघोनः। परि। ख्यतम्। मो इति। अस्माकम्। ऋषीणाम्। गोऽपीथे। नः। उरुष्यतम् ॥६॥

    ऋग्वेद - मण्डल » 5; सूक्त » 65; मन्त्र » 6
    अष्टक » 4; अध्याय » 4; वर्ग » 3; मन्त्र » 6

    अन्वयः - हे मित्रा अध्यापकोपदेशकौ ! युवमिमं जनं यतथः सन्नयथश्च मघोनो नो मा परि ख्यतमृषीणामस्माकं गोपीथे मो परिख्यतं शुभे कर्मण्यस्मानुरुष्यतम् ॥६॥

    पदार्थः -
    (युवम्) युवाम् (मित्रा) (इमम्) (जनम्) उपदेश्यं मनुष्यम् (यतथः) प्रेरयथः (सम्) (च) (नयथः) प्रापयथः (मा) निषेधे (मघोनः) बहुधनयुक्तान् (परि) वर्जने (ख्यतम्) निराकुरुतम् (मो) निषेधे (अस्माकम्) (ऋषीणाम्) वेदार्थविदाम् (गोपीथे) गवां पेये दुग्धादौ (नः) अस्मान् (उरुष्यतम्) प्रेरयेतम् ॥६॥

    भावार्थः - हे विद्वांसो ! भवन्तः सर्वान् जनान् प्रयतमानान् कृत्वा सुखं प्रापयन्तु। हे विद्यार्थिनः श्रोतारो वा ! यूयमस्मानध्यापकानुपदेशकान् कदाचिन्मावमन्यध्वमेव वर्त्तित्वा सत्यं धर्मं सेवेमहीति ॥६॥ अत्र मित्रावरुणाध्यापकाध्येत्रुपदेशकोपदेश्यकर्मवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चषष्टितमं सूक्तं तृतीयो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top