Loading...
ऋग्वेद मण्डल - 6 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 31/ मन्त्र 4
    ऋषिः - सुहोत्रः देवता - इन्द्र: छन्दः - निचृदतिशक्वरी स्वरः - निषादः

    त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्योः॑। अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥४॥

    स्वर सहित पद पाठ

    त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ । अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥


    स्वर रहित मन्त्र

    त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः। अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥४॥

    स्वर रहित पद पाठ

    त्वम्। शतानि। अव। शम्बरस्य। पुरः। जघन्थ। अप्रतीनि। दस्योः। अशिक्षः। यत्र। शच्या। शचीऽवः। दिवःऽदासाय। सुन्वते। सुतऽक्रे। भरत्ऽवाजाय। गृणते। वसूनि ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 31; मन्त्र » 4
    अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 4

    अन्वयः - हे शचीवः सुतक्र इन्द्र ! राजँस्त्वं यथा सूर्यः शम्बरस्य शतानि पुरोऽव जघन्थ तथा दस्योरप्रतीनि शतानि पुरो जघन्थ शच्यैतानशिक्षो यत्र दिवोदासाय सुन्वते गृणते भरद्वाजाय वसूनि दद्यास्तत्रैतेन विद्याप्रचारं कारय ॥४॥

    पदार्थः -
    (त्वम्) (शतानि) (अव) (शम्बरस्य) मेघस्येव शत्रोः (पुरः) पुराणि (जघन्थ) हंसि (अप्रतीनि) अप्रतीतान्यपि (दस्योः) परद्रव्यापहारकस्य दुष्टस्य (अशिक्षः) शिक्षय (यत्र) (शच्या) सुशिक्षितया वाचोत्तमेन कर्मणा वा (शचीवः) शची प्रशस्ता प्रज्ञा विद्यते यस्य सः (दिवोदासाय) विज्ञानस्य दात्रे (सुन्वते) सारनिष्पादकाय (सुतक्रे) सुष्ठुप्रसन्न (भरद्वाजाय) विज्ञानधर्त्रे (गृणते) स्तुवते (वसूनि) द्रव्याणि ॥४॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यो राजा सूर्य्यवन्न्यायप्रकाशको मेघवद्विद्यादिप्रचाराय पुष्कलधनदाता भवति स एव विजयमाप्नोति ॥४॥

    इस भाष्य को एडिट करें
    Top