ऋग्वेद - मण्डल 6/ सूक्त 31/ मन्त्र 5
स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम्। या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥५॥
स्वर सहित पद पाठसः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् । या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥
स्वर रहित मन्त्र
स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम्। याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥५॥
स्वर रहित पद पाठसः। सत्यऽसत्वन्। महते। रणाय। रथम्। आ। तिष्ठ। तुविऽनृम्ण। भीमम्। याहि। प्रऽपथिन्। अवसा। उप। मद्रिक्। प्र। च। श्रुत। श्रवय। चर्षणिऽभ्यः ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 31; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 5
विषयः - पुनस्स राजा किं कुर्यादित्याह ॥
अन्वयः - हे सत्यसत्वन् प्रपथिंस्तुविनृम्ण ! स त्वं महते रणाय रथमा तिष्ठाऽवसा भीमं सङ्ग्राममुप याहि मद्रिक् सन् विद्वद्भ्यः श्रुत चर्षणिभ्यश्च प्र श्रावय ॥५॥
पदार्थः -
(सः) (सत्यसत्वन्) सत्यानि सत्वान्यन्तःकरणादीनि यस्य तत्सम्बुद्धौ (महते) (रणाय) सङ्ग्रामाय (रथम्) रमणीयं यानम् (आ) (तिष्ठ) (तुविनृम्ण) बहुधनयुक्त (भीमम्) भयङ्करम् (याहि) (प्रपथिन्) प्रकृष्टः पन्था विद्यते यस्य तत्सम्बुद्धौ (अवसा) रक्षणादिना (उप) (मद्रिक्) यो मामञ्चति मदभिमुखः (प्र) (च) (श्रुत) शृणु (श्रावय) (चर्षणिभ्यः) मनुष्येभ्यः ॥५॥
भावार्थः - यो राजा सत्यवादिभ्यो राजनीतिकृत्यं श्रुत्वाऽन्येभ्यः श्रावयित्वा शुद्धात्मा सन्त्सर्वस्य रक्षणाय दुष्टपराजयं करोति स एवातुलश्रीको भवतीति ॥५॥ अत्रेन्द्रराजकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकत्रिंशत्तमं सूक्तं तृतीयो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें