ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 8
शृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम्। ईशा॑नं रा॒य ई॑महे ॥८॥
स्वर सहित पद पाठशृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम्। ईशानं राय ईमहे ॥८॥
स्वर रहित पद पाठशृण्वन्तम्। पूषणम्। वयम्। इर्यम्। अनष्टऽवेदसम्। ईशानम्। रायः। ईमहे ॥८॥
ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 8
अष्टक » 4; अध्याय » 8; वर्ग » 20; मन्त्र » 3
अष्टक » 4; अध्याय » 8; वर्ग » 20; मन्त्र » 3
विषयः - मनुष्यैः कस्माद्धनं प्राप्तव्यमित्याह ॥
अन्वयः - हे मनुष्या ! यथा वयमिर्यमनष्टवेदसमीशानं शृण्वन्तं पूषणं प्राप्य राय ईमहे तथैनं प्राप्य यूयं धनं याचध्वम् ॥८॥
पदार्थः -
(शृण्वन्तम्) (पूषणम्) पुष्टिकर्त्तारम् (वयम्) (इर्यम्) प्रेरणीयम् (अनष्टवेदसम्) अनष्टविज्ञानधनम् (ईशानम्) ईशनशीलम् (रायः) (ईमहे) याचामहे ॥८॥
भावार्थः - यः सुपात्रकुपात्रयोर्विद्वदविदुषोर्धार्मिकाऽधार्मिकयोः परीक्षकः स्यात्तस्मादेव पुरुषार्थेन धनं प्राप्तव्यम् ॥८॥
इस भाष्य को एडिट करें