ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 9
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न। स्तो॒तार॑स्त इ॒ह स्म॑सि ॥९॥
स्वर सहित पद पाठपूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न । स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥
स्वर रहित मन्त्र
पूषन्तव व्रते वयं न रिष्येम कदा चन। स्तोतारस्त इह स्मसि ॥९॥
स्वर रहित पद पाठपूषन्। तव। व्रते। वयम्। न। रिष्येम। कदा। चन। स्तोतारः। ते। इह। स्मसि ॥९॥
ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 9
अष्टक » 4; अध्याय » 8; वर्ग » 20; मन्त्र » 4
अष्टक » 4; अध्याय » 8; वर्ग » 20; मन्त्र » 4
विषयः - के कस्मिन्नहिंस्राः स्युरित्याह ॥
अन्वयः - हे पूषन् ! यस्य त इह स्तोतारो वयं स्मसि तस्य तव व्रते कदा चन न रिष्येम ॥९॥
पदार्थः -
(पूषन्) पालक (तव) (व्रते) कर्मणि (वयम्) (न) (रिष्येम) हिंस्याम (कदा) (चन) अपि (स्तोतारः) विद्यास्तावकाः (ते) तव (इह) (स्मसि) ॥९॥
भावार्थः - ये सत्यविद्यानां प्रशंसका मनुष्याः स्युस्ते विद्वत्कर्मणि हिंसका न स्युः ॥९॥
इस भाष्य को एडिट करें