Loading...
ऋग्वेद मण्डल - 6 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 66/ मन्त्र 10
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मरुतः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः। अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥१०॥

    स्वर सहित पद पाठ

    त्विषि॑ऽमन्तः । अ॒ध्व॒रस्य॑ऽइव । दि॒द्युत् । तृ॒षु॒ऽच्यव॑सः । जु॒ह्वः॑ । न । अ॒ग्नेः । अ॒र्चत्र॑यः । धुन॑यः । न । वी॒राः । भ्राज॑त्ऽजन्मानः । म॒रुतः॑ । अधृ॑ष्टाः ॥


    स्वर रहित मन्त्र

    त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो३ नाग्नेः। अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥१०॥

    स्वर रहित पद पाठ

    त्विषिऽमन्तः। अध्वरस्यऽइव। दिद्युत्। तृषुऽच्यवसः। जुह्वः। न। अग्नेः। अर्चत्रयः। धुनयः। न। वीराः। भ्राजत्ऽजन्मानः। मरुतः। अधृष्टाः ॥१०॥

    ऋग्वेद - मण्डल » 6; सूक्त » 66; मन्त्र » 10
    अष्टक » 5; अध्याय » 1; वर्ग » 8; मन्त्र » 5

    अन्वयः - येऽध्वरस्येव जुह्वो न तृषुच्यवसोऽग्नेरर्चत्रयो धुनयो न त्विषीमन्तो भ्राजज्जन्मानोऽधृष्टा मरुतो वीरा दिद्युदिव वर्त्तमानाः स्युस्तैरेव विजयं प्राप्नुवन्तु ॥१०॥

    पदार्थः -
    (त्विषीमन्तः) विद्याविनयादिप्रकाशयुक्ताः (अध्वरस्येव) अहिंसामयस्य यज्ञस्येव (दिद्युत्) प्रकाशः (तृषुच्यवसः) तृषु क्षिप्रं ये च्यवन्ते गच्छन्ति (जुह्वः) जुहोति याभिस्ताः (न) इव (अग्नेः) पावकस्य (अर्चत्रयः) अर्चकाः (धुनयः) कम्पयन्तः (न) इव (वीराः) (भ्राजज्जन्मानः) भ्राजद्देदीप्यमानं जन्म येषां ते (मरुतः) वायुवद्बलिष्ठा मनुष्याः (अधृष्टाः) शत्रुभिरधर्षणीयाः ॥१०॥

    भावार्थः - अत्रोपमालङ्कारः। हे राजादयो जना ! यथाऽध्वरस्य मध्ये वर्त्तमाना ज्वाला सद्योऽन्तरिक्षाय गच्छति तथा शिक्षाया मध्ये वर्त्तमाना जनाः सद्यो विजयाय गन्तुं शक्नुवन्ति यथा जुहूभिरग्निः प्रदीप्यते तथा शिक्षासत्काराभ्यां वीरसेना प्रदीपनीया यथाऽग्नेर्ज्वालाः शब्दाश्च प्रभवन्ति तथैव भवतां सेनायाः प्रकाशाः शब्दाश्च महान्तो भवेयुः ॥१०॥

    इस भाष्य को एडिट करें
    Top