Loading...
ऋग्वेद मण्डल - 6 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 66/ मन्त्र 11
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे। दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥११॥

    स्वर सहित पद पाठ

    तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ । दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षा । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥


    स्वर रहित मन्त्र

    तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे। दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥११॥

    स्वर रहित पद पाठ

    तम्। वृधन्तम्। मारुतम्। भ्राजत्ऽऋष्टिम्। रुद्रस्य। सूनुम्। हवसा। आ। विवासे। दिवः। शर्धाय। शुचयः। मनीषा। गिरयः। न। आपः। उग्राः। अस्पृध्रन् ॥११॥

    ऋग्वेद - मण्डल » 6; सूक्त » 66; मन्त्र » 11
    अष्टक » 5; अध्याय » 1; वर्ग » 8; मन्त्र » 6

    अन्वयः - ये शुचयो मनीषा उग्रा गिरय आपो न दिवः शर्धायास्पृध्रंस्तैस्सह वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य तं सूनुं हवसाऽहमा विवासे ॥११॥

    पदार्थः -
    (तम्) (वृधन्तम्) वर्धमानं वर्धयन्तं वा (मारुतम्) मरुतामिमम् (भ्राजदृष्टिम्) भ्राजद् ऋष्टिः सम्प्रेक्षणं यस्य तम् (रुद्रस्य) कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्य्यस्य (सूनुम्) पुत्रम् (हवसा) आदानेन (आ) (विवासे) सेवे (दिवः) कमनीयस्य (शर्धाय) बलाय (शुचयः) पवित्राः (मनीषाः) मनस्विनः (गिरयः) मेघाः (न) इव (आपः) जलानि (उग्राः) तेजस्विनः (अस्पृध्रन्) स्पर्द्धन्ताम् ॥११॥

    भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्या मेघवदुन्नताः प्रजापालका जलवत्पोषकाः पवित्राशयास्तेजस्विनः कमनीयस्य बलस्य वर्धकाः स्युस्तैस्सह यदि राजा राज्यशासनं कुर्यात्तर्हि कुत्रापि पराजयोऽपकीर्त्तिश्च न जायेतेति ॥११॥ अत्र मरुद्गुणवद्विद्वद्वीरपुरुषगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षट्षष्टितमं सूक्तमष्टमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top