Loading...
ऋग्वेद मण्डल - 6 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 67/ मन्त्र 11
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु। अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥११॥

    स्वर सहित पद पाठ

    अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः॑ । अ॒भिष्टौ॑ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ । अस्कृ॑धोयु । अनु॑ । यत् । गावः॑ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे॑ । वृष॑णम् । यु॒नज॑न् ॥


    स्वर रहित मन्त्र

    अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु। अनु यद्गावः स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥११॥

    स्वर रहित पद पाठ

    अवोः। इत्था। वाम्। छर्दिषः। अभिष्टौ। युवोः। मित्रावरुणौ। अस्कृधोयु। अनु। यत्। गावः। स्फुरान्। ऋजिप्यम्। धृष्णुम्। यत्। रणे। वृषणम्। युनजन् ॥११॥

    ऋग्वेद - मण्डल » 6; सूक्त » 67; मन्त्र » 11
    अष्टक » 5; अध्याय » 1; वर्ग » 10; मन्त्र » 6

    अन्वयः - हे अध्यापकोपदेशकौ ! यद्ये गावस्तान् स्फुरानृजिप्यं धृष्णुं वृषणं रणे कश्चिद्युनजन् सन् विजयते। हे मित्रावरुणाववोर्वां छर्दिषोऽभिष्टौ यद्यः प्रयतते युवोरस्कृधोय्वित्थाऽनुयतते तं सदा सत्कुर्यातम् ॥११॥

    पदार्थः -
    (अवोः) रक्षकयोः। अत्र छान्दसो वर्णलोपो वेति सलोपः। (इत्था) अस्माद्धेतोः (वाम्) युवयो (छर्दिषः) गृहस्य (अभिष्टौ) आभिमुख्येन यजनक्रियायाम् (युवोः) युवयोः (मित्रावरुणौ) वायुसूर्यवद्वर्त्तमानौ (अस्कृधोयु) य आत्मनः कृधु ह्रस्वत्वं नेच्छति। अत्र सुपां सुलुगिति सुलोपः। (अनु) (यत्) ये (गावः) किरणा धेनवो वा (स्फुरान्) स्फूर्त्तिमतः (ऋजिप्यम्) ऋजूनां पालके भवम् (धृष्णुम्) दृढं प्रगल्भं वा (यत्) यः (रणे) सङ्ग्रामे (वृषणम्) बलिष्ठम् (युनजत्) युञ्जन् ॥११॥

    भावार्थः - हे अध्यापकोपदेशका ये विद्यार्थिनो युष्माकं कार्य्यं स्वकार्य्यवज्जानन्ति त एव दीर्घायुषः प्रशस्तविद्या धार्मिकाः परोपकारिणो जायन्त इति ॥११॥ अत्र प्राणोदानवदध्यापकोपदेशकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्तषष्टितमं सूक्तं दशमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top