ऋग्वेद - मण्डल 6/ सूक्त 67/ मन्त्र 10
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - मित्रावरुणौ
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः। आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥१०॥
स्वर सहित पद पाठवि । यत् । वाच॑म् । की॒स्तासः॑ । भर॑न्ते । शंस॑न्ति । के । चि॒त् । नि॒ऽविदः॑ । म॒ना॒नाः । आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि॑ । उ॒क्था । नकिः॑ । दे॒वेभिः॑ । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥
स्वर रहित मन्त्र
वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः। आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥१०॥
स्वर रहित पद पाठवि। यत्। वाचम्। कीस्तासः। भरन्ते। शंसन्ति। के। चित्। निऽविदः। मनानाः। आत्। वाम्। ब्रवाम। सत्यानि। उक्था। नकिः। देवेभिः। यतथः। महिऽत्वा ॥१०॥
ऋग्वेद - मण्डल » 6; सूक्त » 67; मन्त्र » 10
अष्टक » 5; अध्याय » 1; वर्ग » 10; मन्त्र » 5
अष्टक » 5; अध्याय » 1; वर्ग » 10; मन्त्र » 5
विषयः - पुनः के तिरस्करणीयाः सत्कर्त्तव्याश्चेत्याह ॥
अन्वयः - हे अध्यापकोपदेशकौ ! यदि युवां महित्वा देवेभिस्सह विद्यावृद्धये नकिर्यतथस्तर्हि वां सत्यान्युक्था आद् ब्रवाम यद्ये कीस्तासो वाचं वि भरन्ते के चिन्मनाना मननं कुर्वाणा निविदः शंसन्ति तान् सर्वदा युवां पाठयतम् ॥१०॥
पदार्थः -
(वि) (यत्) ये (वाचम्) (कीस्तासः) मेधाविनः। कीस्तास इति मेधाविनाम। (निघं०३.१५) (भरन्ते) (शंसन्ति) (के) (चित्) अपि (निविदः) उत्तमा वाचः। निविदिति वाङ्नाम। (निघं०१.११) (मनानाः) मन्यमानाः (आत्) आनन्तर्ये (वाम्) युवाम् (ब्रवाम) अध्यापयेमोपदिशेम वा (सत्यानि) सत्सु अर्थेषु साधूनि (उक्था) वक्तुं श्रोतुमर्हाणि (नकिः) निषेधे (देवेभिः) विद्वद्भिः सह (यतथः) यतेथे। अत्र व्यत्ययेन परस्मैपदम् (महित्वा) महिम्ना ॥१०॥
भावार्थः - राज्ञा राजजनैः प्रजास्थैर्विद्वद्भिश्च के विद्वांसः प्रशासनीया ये निष्कपटत्वेन यथाशक्त्यध्यापनेन विद्याप्रचारं न कुर्य्युः। ये च प्रीत्या विद्याः प्राप्य सर्वत्र प्रचारयन्ति त एव सदैव सत्कर्त्तव्याः ॥१०॥
इस भाष्य को एडिट करें