Loading...
ऋग्वेद मण्डल - 6 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 67/ मन्त्र 9
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मित्रावरुणौ छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑। न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥९॥

    स्वर सहित पद पाठ

    प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ । न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥


    स्वर रहित मन्त्र

    प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति। न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥९॥

    स्वर रहित पद पाठ

    प्र। यत्। वाम्। मित्रावरुणा। स्पूर्धन्। प्रिया। धाम। युवऽधिता। मिनन्ति। न। ये। देवासः। ओहसा। न। मर्ताः। अयज्ञऽसाचः। अप्यः। न। पुत्राः ॥९॥

    ऋग्वेद - मण्डल » 6; सूक्त » 67; मन्त्र » 9
    अष्टक » 5; अध्याय » 1; वर्ग » 10; मन्त्र » 4

    अन्वयः - हे मित्रावरुणा ! यद्ये स्पूर्द्धन् वां प्रिया धाम युवधिता न प्रमिणन्ति ये देवास ओहसाऽयज्ञसाचो मर्त्ताश्च न मिनन्ति तेऽप्यो न पुत्रा इव जायन्ते ॥९॥

    पदार्थः -
    (प्र) (यत्) ये (वाम्) युवयोः (मित्रावरुणा) प्राणोदानवद्वर्त्तमानौ (स्पूर्धन्) स्पर्द्धमानाः (प्रिया) प्रियाणि (धाम) दधति येषु तानि (युवधिता) युवयोर्हितानि (मिनन्ति) हिंसन्ति (न) निषेधे (ये) (देवासः) विद्वांसः (ओहसा) प्राप्तेन बलेन वेगन वा (न) निषेधे (मर्त्ताः) मनुष्याः (अयज्ञसाचः) ये यज्ञेन न सचन्ति सम्बध्नन्ति ते (अप्यः) अप्सु सत्कर्मसु भवः (न) इव (पुत्राः) ॥९॥

    भावार्थः - ये मनुष्या अध्यापकोपदेशकानामप्रियं नाचरन्ति ते सत्पुत्रवद्भवन्ति ये चाऽप्रियमाचरन्ति ते शत्रुवज्जायन्ते ॥९॥

    इस भाष्य को एडिट करें
    Top