Loading...
ऋग्वेद मण्डल - 7 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 48/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - ऋभवः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ऋ॒भुर्ऋ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो॑ वि॒भुभिः॒ शव॑सा॒ शवां॑सि। वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् ॥२॥

    स्वर सहित पद पाठ

    ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । वः॒ । स्या॒म॒ । विऽभ्वः॑ । वि॒ऽभुमिः॑ । शव॑सा । शवां॑सि । वाजः॑ । अ॒स्मान् । अ॒व॒तु॒ । वाज॑ऽसातौ । इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥


    स्वर रहित मन्त्र

    ऋभुर्ऋभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि। वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥२॥

    स्वर रहित पद पाठ

    ऋभुः। ऋभुऽभिः। अभि। वः। स्याम। विऽभ्वः। विभुऽभिः। शवसा। शवांसि। वाजः। अस्मान्। अवतु। वाजऽसातौ। इन्द्रेण। युजा। तरुषेम। वृत्रम् ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 48; मन्त्र » 2
    अष्टक » 5; अध्याय » 4; वर्ग » 15; मन्त्र » 2

    अन्वयः - हे मनुष्या ! यथा वाज ऋभुभिस्सह वाजसातावृभुर्वो युष्मानस्माँश्चावतु युजेन्द्रेण वृत्रं प्राप्नुयात् तथा विभ्वो वयं विभुभिः शवसा च सह शवांस्यभि तरुषेम यतो वयं सुखिनः स्याम ॥२॥

    पदार्थः -
    (ऋभुः) मेधावी विद्वान् (ऋभुभिः) मेधाविभिराप्तैर्विद्वद्भिस्सह। ऋभुरिति मेधाविनाम। (निघं०३.१५)(अभि) आभिमुख्ये (वः) युष्मान् (स्याम) (विभ्वः) सकलशुभगुणकर्मस्वभावव्यापिनः (विभुभिः) सद्गुणादिषु व्याप्तैः (शवसा) बलेन (शवांसि) सङ्ग्रामे (इन्द्रेण) विद्युदाद्यस्त्रेण (युजा) युक्तेन (तरुषेम) प्राप्नुयाम। तरुष्यतीति पदनाम। (निघं०४.२) (वृत्रम्) धनम्। वृत्रमिति धननाम। (निघं०२.१०) ॥२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। त एव विद्वांसो व्याप्तविद्याशुभगुणस्वभावा भवन्ति ये संग्रामेऽपि सर्वान्रक्षयित्वा धनं बलं च दातु शक्नुवन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top