अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 19
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः। ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥
स्वर सहित पद पाठयथा॑ । प्रा॒ण॒ । ब॒लि॒ऽहृत॑: । तुभ्य॑म् । सर्वा॑: । प्र॒ऽजा: । इ॒मा: । ए॒व । तस्मै॑ । ब॒लिम् । ह॒रा॒न् । य: । त्वा॒ । शृ॒णव॑त् । सु॒ऽश्र॒व॒: ॥६.१९॥
स्वर रहित मन्त्र
यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः। एवा तस्मै बलिं हरान्यस्त्वा शृणवत्सुश्रवः ॥
स्वर रहित पद पाठयथा । प्राण । बलिऽहृत: । तुभ्यम् । सर्वा: । प्रऽजा: । इमा: । एव । तस्मै । बलिम् । हरान् । य: । त्वा । शृणवत् । सुऽश्रव: ॥६.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 19
विषय - प्राण की महिमा का उपदेश।
पदार्थ -
(प्राण) हे प्राण ! [परमेश्वर] (यथा) जैसे (तुभ्यम्) तेरे लिये (इमाः) यह (सर्वाः) सब (प्रजाः) प्रजाएँ (बलिहृतः) भक्तिरूप उपहार देनेवाली हैं, (एव) वैसे ही (तस्मै) उस [पुरुष] के लिये (बलिम्) बलि [उपहार] (हरान्) वे लावें, (यः) जो पुरुष, (सुश्रवः) हे बड़ी कीर्तिवाले [परमेश्वर] (त्वा) तुझको (शृणवत्) सुने ॥१९॥
भावार्थ - परमेश्वर की आज्ञा माननेवाला पुरुष सब प्राणियों को अपने वश में कर लेता है ॥१९॥
टिप्पणी -
१९−(यथा) येन प्रकारेण (प्राण) (बलिहृतः) बलेर्भक्तिरूपस्योपहारस्य हर्त्र्यः प्रापिकाः (तुभ्यम्) (सर्वाः) (प्रजाः) उत्पन्नाः प्राणिनः (इमाः) दृश्यमानाः (एव) तथैव (तस्मै) पुरुषाय (बलिम्) उपहारम् (हरान्) म० १८ (यः) पुरुषः (त्वा) त्वाम् (शृणवत्) लेटि, अडागमः। शृणुयात् (सुश्रवः) श्रु श्रवणे-असुन्। हे बहुकीर्त्ते ॥