अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 5
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - कृमिजम्भन सूक्त
ये क्रिम॑यः॒ पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः। ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ॥
स्वर सहित पद पाठये क्रिम॑य: । पर्व॑तेषु । वने॑षु । ओष॑धीषु । प॒शुषु॑ । अ॒प्ऽसु । अ॒न्त: । ये । अ॒स्माक॑म् । त॒न्व᳡म् । आ॒ऽवि॒वि॒शु: । सर्व॑म् । तत् । ह॒न्मि॒ । जनि॑म । क्रिमी॑णाम् ॥३१.५॥
स्वर रहित मन्त्र
ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्व१न्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥
स्वर रहित पद पाठये क्रिमय: । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ये । अस्माकम् । तन्वम् । आऽविविशु: । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥३१.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 5
विषय - छोटे-छोटे दोषों का भी नाश करे।
पदार्थ -
(ये) जो (क्रिमयः) कीड़े (पर्वतेषु) पहाड़ों में, (वनेषु) वनों में, (ओषधीषु) अन्न आदि ओषधियों में, (पशुषु) गौ आदि पशुओं में और (अप्सु) जल में (अन्तः) भीतर हैं। और (ये) जो (अस्माकम्) हमारे (तन्वम्) शरीर में (आविविशुः) प्रविष्ट हो गये हैं, (क्रिमीणाम्) क्रिमियों के (तत्) उस (सर्वम्) सब (जनिम) जन्म को (हन्मि) मैं नाश करूँ ॥५॥
भावार्थ - मनुष्यों को उचित है कि सब स्थानों, सब वस्तुओं और अपने शरीरों को शुद्ध रक्खें कि छोटे-बड़े कोई जन्तु क्लेश न देवें, ऐसे ही सब पुरुष आत्मशुद्धि करके अपने भीतरी बाहिरी, छोटे-बड़े दोषों को मिटाकर आनन्द से रहें ॥५॥ सायणभाष्य में (ये) के स्थान में [ते] और (तन्वम्) के स्थान में [तन्वः] है ॥ इति पञ्चमोऽनुवाकः ॥
टिप्पणी -
५–क्रिमयः। म० १। क्षुद्रजन्तवः। पर्वतेषु। भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूरणे–अतच्। पर्वति पूरयति भूमिमिति। शैलेषु। वनेषु। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति वन सम्भक्तौ–घः। वन्यते सेव्यते वृक्षैः। बहुवृक्षयुक्तस्थानेषु। अरण्येषु। ओषधीषु। पशुषु। अप्सु। अन्तः। व्याख्यातानि–अ० १।३०।३। ओषधीषु। धान्यादिषु। पशुषु। गवादिषु। सर्वजीवेषु। अप्सु। जलेषु। अन्तः। मध्ये। तन्वम्। अ० १।१।१। शरीरम्। आ–विविशुः। विश प्रवेशे–लिट्। प्रविष्टाः। सर्वम्। प्रत्येकम्। तत्। पूर्वोक्तम्। हन्मि। नाशयामि। जनिम। अ० १।८।४। उत्पत्तिकारणम्। क्रिमीणाम्। कृमीणाम्। कीटानाम् ॥