अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - यक्षविबर्हण
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । भ॒स॒द्य᳡म् । श्रोणि॑ऽभ्याम् । भास॑दम् । भंस॑स: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.५॥
स्वर रहित मन्त्र
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्। यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥
स्वर रहित पद पाठऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् । यक्ष्मम् । भसद्यम् । श्रोणिऽभ्याम् । भासदम् । भंसस: । वि । वृहामि । ते ॥३३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 5
विषय - शारीरिक विषय में शरीररक्षा।
पदार्थ -
(ते) तेरे (उरुभ्याम्) दोनों जँघाओं से, (अष्ठीवद्भ्याम्) दोनों घुटनों से, (पार्ष्णिभ्याम्) दोनों एड़ियों से, (प्रपदाभ्याम्) दोनों पैरों के पंजों से और (ते) तेरे (श्रोणिभ्याम्) दोनों कूल्हों से [वा नितम्बों से] और (भंससः) गुह्य स्थान से (भसद्यम्) कटि [कमर] के और (भासदम्) गुह्य के (यक्ष्मम्) क्षयी रोग को (वि वृहामि) मैं जड़ से उखाड़ता हूँ ॥५॥
भावार्थ - इस मन्त्र में कटि से नीचे के अवयवों का वर्णन है। भावार्थ मन्त्र १ के समान है ॥५॥
टिप्पणी -
५–ऊरुभ्याम्। ऊर्णोतेर्नुलोपश्च। उ० १।३०। इति ऊर्णु आच्छादने–कु, नुलोपश्च। जानूपरिभागाभ्याम्। जङ्घाभ्याम्। अष्ठीवद्भ्याम्। आसन्दीवदष्ठीवच्चक्रीवत्०। पा० ८।२।१२। इति अस्थि–मतुप्, अष्ठीभावो निपात्यते। जानुभ्याम्। पार्ष्णिभ्याम्। घृणिपृश्निपार्ष्णि०। उ० ४।५२। इति पृषु सेके–नि, निपातनात् साधुः। पृष्यते भूम्यादिकमनेनेति। गुल्फस्याधोभागाभ्याम्। पादग्रन्थ्यधराभ्याम्। प्रपदाभ्याम्। प्रारब्धं प्रगतं वा पदमिति प्रादिसमासः। पादाग्रभागाभ्याम्। भसद्यम्। शॄदॄभसोऽदिः। उ० १।१३०। इति भस द्युतौ–अदि, यत्। भसत्=जघनं योनिर्वा–श० क० द्रुमे। कटिप्रदेशे भवम्। श्रोणिभ्याम्। वहिश्रिश्रुयु०। उ० ४।५१। इति श्रु गतौ, श्रुतौ–नि। यद्वा, श्रोष संघाते–इन्। कटिभ्याम्। नितम्बाभ्याम्। भासदम्। भसद्–अण्। भसदि, योनौ भवम्। भंससः। भस दीप्तौ–असुन्, नुट् च। भासमानात् पायोः, गुह्यस्थानात्। अन्यद् व्याख्यातम् ॥