Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 102/ मन्त्र 1
ई॒लेन्यो॑ नम॒स्यस्ति॒रस्तमां॑सि दर्श॒तः। सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥
स्वर सहित पद पाठई॒लेन्य॑: । न॒म॒स्य॑: । ति॒र: । तमां॑सि । द॒र्श॒त: ॥ सम् । अ॒ग्नि: । इ॒ध्य॒ते॒ । वृषा॑ । १०२.१॥
स्वर रहित मन्त्र
ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः। समग्निरिध्यते वृषा ॥
स्वर रहित पद पाठईलेन्य: । नमस्य: । तिर: । तमांसि । दर्शत: ॥ सम् । अग्नि: । इध्यते । वृषा । १०२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 102; मन्त्र » 1
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(ईलेन्यः) खोजने योग्य (नमस्यः) सत्कार करने योग्य, (तमांसि) अन्धकारों को (तिरः) हटानेवाला, (दर्शतः) देखने योग्य, (वृषा) बलवान् (अग्निः) अग्नि [प्रकाशमान परमेश्वर] (सम्) भले प्रकार (इध्यते) प्रकाश करता है ॥१॥
भावार्थ - मनुष्य अन्धकारनाशक परमात्मा को प्रत्येक पदार्थ में साक्षात् करके अपने हृदय को प्रकाशमान करे ॥१॥
टिप्पणी -
यह तृच ऋग्वेद में है-३।२७।१३-१, सामवेद-उ० ७।२। तृच २ ॥ १−(ईलेन्यः) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। ईड-स्तुतौ, अध्येषणायाम्-निरु० ७।१। केन्यप्रत्ययः, डस्य लः। अध्येषणीयः (नमस्यः) अचो यत् पा० ३।१।९७। नमस्यतेः-यत्। सत्कर्तव्यः (तिरः) तिरस्कुर्वन् (तमांसि) ध्वान्तानि (दर्शतः) अथ० ४।१०।६। दर्शनीयः (सम्) सम्यक् (अग्निः) प्रकाशमानः परमेश्वरः (इध्यते) दीप्यते (वृषा) बलवान् ॥