Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 2
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥
स्वर सहित पद पाठतत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्य॑: । रू॒पम् । कृ॒णु॒ते॒ । द्यौ: । उ॒पऽस्थे॑ ॥ अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाज॑: । कृ॒ष्णम् । अ॒न्यत् । ह॒रित॑: । सम् । भ॒र॒न्ति॒ ॥१२३॥
स्वर रहित मन्त्र
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥
स्वर रहित पद पाठतत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्य: । रूपम् । कृणुते । द्यौ: । उपऽस्थे ॥ अनन्तम् । अन्यत् । रुशत् । अस्य । पाज: । कृष्णम् । अन्यत् । हरित: । सम् । भरन्ति ॥१२३॥
अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 2
विषय - सूर्य के काम का उपदेश।
पदार्थ -
(तत्) उस (अनन्तम्) अनन्त [ब्रह्म] के द्वारा (द्योः) प्रकाश के (उपस्थे) गोद में (मित्रस्य) प्राण वायु और (वरुणस्य) उदान वायु के (अभिचक्षे) सब ओर देखने के लिये (सूर्यः) प्रेरणा करनेवाला सूर्यलोक (रूपम्) रूप को (कृणुते) बनाता है, (अस्य) इस [सूर्य] के (अन्यत्) एक (रुशत्) प्रकाश और (अन्यत्) दूसरे (कृष्णम्) आकर्षण (पाजः) बल को (हरितः) दिशाएँ (सम्) मिलकर (भरन्ति) धारण करती हैं ॥२॥
भावार्थ - परमेश्वर के नियम से सूर्यलोक अपने प्रकाश से वायु में नीचे ऊपर जाने का बल उत्पन्न करके पृथिवी आदि लोकों को सब दिशाओं में आकर्षण में रखता है ॥२॥
टिप्पणी -
२−(तत्) तेन (मित्रस्य) प्राणस्य (वरुणस्य) उदानस्य (अभिचक्षे) चक्षिङ् दर्शने-क्विप्। संमुखदर्शनाय (सूर्यः) प्रेरकः सविता (रूपम्) चक्षुर्ग्राह्यं गुणम् (कृणुते) करोति (द्योः) प्रकाशस्य (उपस्थे) उपस्थाने मध्ये (अनन्तम्) अन्तरहितेन ब्रह्मणा (अन्यत्) एकम् (रुशत्) रुश हिंसायाम्-शतृ-रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः-निरु० २।२०। ज्वलितवर्णम् दीप्यमानम् (अस्य) सूर्यस्य (पाजः) बलम् (कृष्णम्) आकर्षणम् (अन्यत्) द्वितीयम् (हरितः) दिशः (सम्) एकीभूय (भरन्ति) धरन्ति ॥