अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 4
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते। अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चि॑केतथः ॥
स्वर सहित पद पाठअ॒यम् । वा॒म् । घ॒र्म: । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ॥ अ॒यम् । सोम॑: । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथ: ॥१३९.४॥
स्वर रहित मन्त्र
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते। अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
स्वर रहित पद पाठअयम् । वाम् । घर्म: । अश्विना । स्तोमेन । परि । सिच्यते ॥ अयम् । सोम: । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथ: ॥१३९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 4
विषय - गुरुजनों के गुणों का उपदेश।
पदार्थ -
(अश्विना) हे दोनों अश्वी ! [चतुर माता-पिता, गुरुजनो] (वाम्) तुम दोनों का (अयम्) यह (घर्मः) पसीना (स्तोमेन) स्तुतियोग्य कर्म के साथ (परि सिच्यते) सिंचता है [बहता है], (वाजिनीवसू) हे बहुत वेगवाली वा बहुत अन्नवाली क्रियाओं में निवास करनेवाले दोनों ! (अयम्) वह [पसीना] (मधुमान्) उत्तम ज्ञानवाला (सोमः) सोम [तत्त्व रस] है, (येन) जिस [तत्त्व रस] से (वृत्रम्) रोकनेवाले शत्रु को (चिकेतथः) तुम दोनों जान लेते हो ॥४॥
भावार्थ - गुरुजन महान् परिश्रम करके मधुविद्या अर्थात् तत्त्वज्ञान को प्राप्त करें और शत्रुओं को मारें ॥४॥
टिप्पणी -
४−(अयम्) शरीरस्थः (वाम्) युवयोः (घर्मः) घर्मग्रीष्मौ। उ० १।१४९। घृ क्षरणदीप्त्यो-मक्। स्वेदः (अश्विना) म० १। हे चतुरमातापितरौ। गुरुजनौ (स्तोमेन) स्तुत्यकर्मणा (परि सिच्यते) आसिच्यते। वहति (अयम्) स घर्मः (सोमः) तत्त्वरसः (मधुमान्) मधुविद्यायुक्तः। श्रेष्ठज्ञानोपेतः (वाजिनीवसू) अथ० १४।२।। हे वेगवतीषु अन्नवतीषु वा क्रियासु निवासिनौ (येन) तत्त्वरसेन (वृत्रम्) आवरकं शत्रुम् (चिकेतथः) जानीथः ॥