अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 2
यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा। यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥
स्वर सहित पद पाठयत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थ: । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थ: । सम्ऽओ॑कसा ॥ यत् । आ॒दि॒त्येभि॑: । ऋ॒भुऽभि॑: । स॒ऽजोष॑सा । यत् । वा॒ । विष्णो॑: । वि॒ऽक्रम॑णेषु । तिष्ठ॑थ: ॥१४१.२॥
स्वर रहित मन्त्र
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा। यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥
स्वर रहित पद पाठयत् । इन्द्रेण । सऽरथम् । याथ: । अश्विना । यत् । वा । वायुना । भवथ: । सम्ऽओकसा ॥ यत् । आदित्येभि: । ऋभुऽभि: । सऽजोषसा । यत् । वा । विष्णो: । विऽक्रमणेषु । तिष्ठथ: ॥१४१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 2
विषय - दिन और राति के उत्तम प्रयोग का उपदेश।
पदार्थ -
(अश्विना) हे दोनों अश्वी ! [व्यापक दिन-राति] (यत्) चाहे (इन्द्रेण) इन्द्र [बड़े ऐश्वर्यवाले सूर्य] के साथ (सरथम्) एक रथ में चढ़कर (याथः) तुम चलते हो, (वा) अथवा (यत्) चाहे (वायुना) पवन के साथ (समोकसा) एक घरवाले (भवथः) होते हो। (यत्) चाहे (आदित्येभिः) अखण्ड व्रतधारी (ऋभुभिः) बुद्धिमानों के साथ (सजोषसा) एक सी प्रीति करते हुए, (वा) अथवा (यत्) चाहे (विष्णोः) सर्वव्यापक परमात्मा के (विक्रमणेषु) पराक्रमों में (तिष्ठथः) ठहरते हो [वहाँ से दोनों आओ-म० १] ॥२॥
भावार्थ - मनुष्यों को चाहिये कि सर्वत्र व्यापी दिन-राति अर्थात् काल को सूर्यविद्या, वायुविद्या, विद्वानों के सत्सङ्ग और परमेश्वर की भक्ति आदि में लगाकर अपना पुरुषार्थ बढ़ावें ॥२॥
टिप्पणी -
२−(यत्) यदि। सम्भावनायाम् (इन्द्रेण) परमैश्वर्यवता सूर्येण सह (सरथम्) समानमेकं रथमास्थाय (याथः) गच्छथः (अश्विना) सू० १४०। म० २। हे व्यापकौ। अहोरात्रौ (यत्) यदि (वा) अथवा (वायुना) पवनेन (भवथः) (समोकसा) समानगृहौ (यत्) (आदित्येभिः) अखण्डव्रतिभिः (ऋभुभिः) अथ० १।२।३। मेधाविभिः-निघ० ३।१। (सजोषसा) समानप्रीयमाणौ (यत्) (वा) (विष्णोः) सर्वव्यापस्य परमेश्वरस्य (विक्रमणेषु) शौर्यातिशयेषु। पराक्रमेषु (तिष्ठथः) वर्तेथे। सर्वस्मादपि स्थानादागच्छतम्-इति पूर्वमन्त्रेण सह अन्वयः ॥