अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 10
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः। अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥
स्वर सहित पद पाठहि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒प॒य॒त् । व॒ल: । गा: ॥ अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ । मि॒थ: । उ॒त्ऽचरा॑त: ॥१६.१०॥
स्वर रहित मन्त्र
हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः। अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥
स्वर रहित पद पाठहिमाऽइव । पर्णा । मुषिता । वनानि । बृहस्पतिना । अकृपयत् । वल: । गा: ॥ अननुऽकृत्यम् । अपुनरिति । चकार । यात् । सूर्यामासा । मिथ: । उत्ऽचरात: ॥१६.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 10
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(हिमा इव) जैसे हिम [महाशीत] से (मुषिता) उजाड़े गये (पर्णा) पत्तों की (वनानि) वृक्ष, [वैसे ही] (बृहस्पतिना) बृहस्पति [महाविद्वान्] के कारण से (वलः) हिंसक दुष्ट ने (गाः) वेदवाणियों को (अकृपयत्) माना। (अननुकृत्यम्) दूसरों से न करने योग्य, (अपुनः) सबसे बढ़कर कर्म (चकार) उस [महाविद्वान्] ने किया है, (यात्) जैसे (सूर्यामासा) सूर्य और चन्द्रमा (मिथः) आपस में (उच्चरातः) उत्तमता से चलते हैं ॥१०॥
भावार्थ - जैसे जाड़े के मारे वृक्ष सूख जाते हैं, वैसे ही विद्वान् पुरुष वेदवाणी के प्रभाव से दुष्टों को मारकर अनुपम कर्म करता हुआ सूर्य और चन्द्रमा के समान सन्मार्ग पर चलता रहे ॥१०॥
टिप्पणी -
१०−(हिमा) हिमेन। महाशीतेन (इव) यथा (पर्णा) पर्णानि। वृक्षपत्राणि (मुषिता) मुषितानि। नाशितानि (वनानि) वृक्षाः (बृहस्पतिना) महाविदुषः पुरुषस्य कारणेन (अकृपयत्) कृप चिन्तने-लङ्। अचिन्तयत्। कल्पितवान् (वलः) हिंसको दुष्टः (गाः) वेदवाणीः (अननुकृत्यम्) सांहितिको दीर्घः। अननुकरणीयम्। अन्यैः कर्तुम् अशक्यम् (अपुनः) प्राततेररन्। उ० ।९। पन स्तुतौ-अरन्, अस्य उत्वम्। नास्ति पुनः स्तुत्यं यस्मात् तत्। अत्यन्तस्तुत्यं कर्म (चकार) कृतवान् (यात्) छान्दसो दीर्घः। यत्। यथा (सूर्यामासा) माङ् माने असुन्। मस्यते परिमीयते स्वकलावृद्धिहानिभ्यामिति माश्चन्द्रमाः। (मिथः) परस्परम् (उच्चरातः) उत्तमतया चरतः, गच्छतः ॥