अथर्ववेद - काण्ड 20/ सूक्त 26/ मन्त्र 3
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म्। यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
स्वर सहित पद पाठअनु॑ । प्र॒त्नस्य॑ । ओक॑स: । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ॥ यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥२६.३॥
स्वर रहित मन्त्र
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्। यं ते पूर्वं पिता हुवे ॥
स्वर रहित पद पाठअनु । प्रत्नस्य । ओकस: । हुवे । तुविऽप्रतिम् । नरम् ॥ यम् । ते । पूर्वम् । पिता । हुवे ॥२६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 26; मन्त्र » 3
विषय - १-३ सेनाध्यक्ष के लक्षण का उपदेश।
पदार्थ -
[हे मनुष्य !] (प्रत्नस्य) पुराने (ओकसः) घर के [उत्पन्न हुए] (तुविप्रतिम्) बहुत पदार्थों के प्रत्यक्ष पहुँचानेवाले (नरम्) पुरुष को (अनु हुवे) मैं पुकारता हूँ, (यम्) जिस [पुरुष] को (पूर्वम्) पहिले काल में (ते) तेरा (पिता) पिता (हुए) बुलाता था ॥३॥
भावार्थ - जो कोई प्रतिष्ठित घराने का पुरुष अपनी प्रतिष्ठा बढ़ाकर उपकार करे, उसको लोग आदर करके बुलावें ॥३॥
टिप्पणी -
३−(अनु) निरन्तरम् (प्रत्नस्य) अ० २०।२४।९। प्राचीनस्य (ओकसः) गृहस्य (हुवे) ह्वेञ् स्पर्धायां शब्दे च-लटि छान्दसं रूपम्। अहं ह्वये। आह्वयामि (तुविप्रतिम्) विनाऽपि प्रत्ययेन पूर्वोत्तरपदयोर्विभाषा लोपो वक्तव्यः। वा० पा० ।३।८३। इति गमयितृशब्दस्य लोपः। तुवीनां बहूनां पदार्थानां प्रतिगमयितारं प्रत्यक्षेण प्रापकम् (नरम्) नेतारम् (यम्) सभाध्यक्षम् (ते) तव (पूर्वम्) पूर्वकाले (पिता) जनकः (हुवे) ह्वेञ्-लिटि छान्दसं रूपम्। जुहुवे। आहूतवान् ॥