अथर्ववेद - काण्ड 20/ सूक्त 26/ मन्त्र 6
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑। समु॒षद्भि॑रजायथाः ॥
स्वर सहित पद पाठके॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेश॑: । म॒र्या॒: । अ॒पे॒शसे॑ ॥ सम् । उ॒षत्ऽभि॑: । अ॒जा॒य॒था॒: ॥२६.६॥
स्वर रहित मन्त्र
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथाः ॥
स्वर रहित पद पाठकेतुम् । कृण्वन् । अकेतवे । पेश: । मर्या: । अपेशसे ॥ सम् । उषत्ऽभि: । अजायथा: ॥२६.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 26; मन्त्र » 6
विषय - ४-६ परमेश्वर के गुणों का उपदेश।
पदार्थ -
(मर्याः) हे मनुष्यो ! (अकेतवे) अज्ञान हटाने के लिये (केतुम्) ज्ञान को और (अपेशसे) निर्धनता मिटाने के लिये (पेशः) सुवर्ण आदि धन को (कृण्वन्) करता हुआ वह [परमात्मा-मन्त्र० , ६] (उषद्भिः) प्रकाशमान गुणों के साथ (सम्) अच्छे प्रकार (अजायथाः) प्रकट हुआ है ॥६॥
भावार्थ - मनुष्य प्रयत्न करके परमात्मा को विचारते हुए सृष्टि के पदार्थों से उपकार लेकर ज्ञानी और धनी होवें ॥६॥
टिप्पणी -
यह मन्त्र यजुर्वेद में भी है-२६।३७ और महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ३०७ ग्रन्थप्रामाण्याप्रामाण्यविषय में भी व्याख्यात है ॥ ६−(केतुम्) केतुरिति प्रज्ञानाम-निघ० ३।९। प्रज्ञानम् (कृण्वन्) कृवि हिंसाकरणयोः-शतृ। कुर्वन् सन् सः परमेश्वरः-म० , ६ (अकेतवे) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति तुमुनः कर्मणि चतुर्थी। अज्ञानं नाशयितुम् (पेशः) पिश गतौ-अवयवे दीपनायां च-असुन्। पेश इति हिरण्यनाम-निघ० १।२। पेश इति रूपनाम पिंशतेर्विपिशितं भवति निरु० ८।११। सुवर्णादिधनं रूपं वा (मर्याः) मनुष्याः (अपेशसे) निर्धनतां नाशयितुम् (सम्) सम्यक् (उषद्भिः) उष दाहे-शतृ। प्रकाशमानैर्गुणैः (अजायथाः) प्रथमपुरुषस्य मध्यमपुरुषः। अजायत। प्रादुरभवत् ॥