अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 2
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑। आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
स्वर सहित पद पाठहरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्त॑: । ह॒री इति॑ । दि॒व्यम् । यथा॑ । सद॑: ॥ आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभि: । न । धे॒नव॑: । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् ।अ॒र्च॒त॒ ॥३०.२॥
स्वर रहित मन्त्र
हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥
स्वर रहित पद पाठहरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्त: । हरी इति । दिव्यम् । यथा । सद: ॥ आ । यम् । पृणन्ति । हरिऽभि: । न । धेनव: । इन्द्राय । शूषम् । हरिऽवन्तम् ।अर्चत ॥३०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 2
विषय - बल और पराक्रम का उपदेश।
पदार्थ -
(हरी) दुःख हरनेवाले दोनों बल और पराक्रम को (हिन्वन्तः) बढ़ाते हुए (ये) जो लोग (दिव्यम्) दिव्य गुणवाले (सदः यथा) समाज के समान (हरिम्) दुःख मिटानेवाले [सेनापति] को (हि) निश्चय करके (योनिम् अभि) न्याय घर में (समस्वरन्) अच्छे प्रकार सराहते हैं, और (यम्) जिस [सेनापति] को (हरिभिः) शूर पुरुषों सहित (धेनवः न) गौओं के समान [जो] (आ) सब ओर से (पृणन्ति) तृप्त करते हैं, (इन्द्राय) ऐश्वर्य के लिये (शूषम्) सुख से (हरिवन्तम्) उस शूर पुरुषोंवाले [सेनापति को] (अर्चत) तुम पूजो ॥२॥
भावार्थ - प्रजागण न्यायकारी वीर राजा को शूर विद्वानों के सहित प्रसन्न करके आनन्दित रहें ॥२॥
टिप्पणी -
२−(हरिम्) दुःखहर्तारं सेनापतिम् (हि) निश्चयेन (योनिम्) न्यायगृहम् (अभि) प्रति (ये) पुरुषाः (समस्वरन्) स्वृ शब्दोपतापयोः-लडर्थे लङ्। सम्यक् स्तुवन्ति (हिन्वन्तः) हि गतिवृद्ध्योः-शतृ। वर्धयन्तः (हरी) दुःखहर्तारौ बलपराक्रमौ (दिव्यम्) उत्तमगुणविशिष्टम् (यथा) (सदः) समाजः (आ) समन्तात् (यम्) सेनापतिम् (पृणन्ति) पृण तर्पणे। तर्पयन्ति (हरिभिः) शूरमनुष्यैः सह (न) यथा (धेनवः) गावः (इन्द्राय) ऐश्वर्याय (शूषम्) शूषं सुखनाम-निघ० ३।६। सुखेन (हरिवन्तम्) शूरपुरुषैर्युक्तम् (अर्चत) पूजयत ॥