Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 3
सूक्त - बरुः सर्वहरिर्वा
देवता - हरिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-३२
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते। म॑म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षं ज॒ठर॒ आ वृ॑षस्व ॥
स्वर सहित पद पाठअपा॑: । पूर्वे॑षाम् । ह॒रि॒ऽव॒: । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ॥ म॒म॒ध्दि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥३२.३॥
स्वर रहित मन्त्र
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते। ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आ वृषस्व ॥
स्वर रहित पद पाठअपा: । पूर्वेषाम् । हरिऽव: । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ॥ ममध्दि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥३२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 3
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
(हरिवः) हे उत्तम मनुष्योंवाले ! [राजन्] तूने (पूर्वेषाम्) पहिले महात्माओं के (सुतानाम्) निचोड़ों [सिद्धान्तों] का (अपाः) पान किया है, (अथो) इसीलिये (इदम्) यह (सवनम्) ऐश्वर्य (केवलम्) केवल (ते) तेरा है। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (मधुमन्तम्) ज्ञानयुक्त (सोमम्) ऐश्वर्य को (ममद्धि) तृप्त कर और (वृषन्) हे बलवान् ! (सत्रा) सत्य रीति से (जठरे) प्रसिद्ध हुए जगत् के बीच (आ) सब ओर से (वृषस्व) बरसा ॥३॥
भावार्थ - राजा पूर्व महात्माओं के सिद्धान्तों पर चलकर ऐश्वर्य प्राप्त करे और उसका सत्प्रयोग करके संसार को सुख देवे ॥३॥
टिप्पणी -
३−(अपाः) पीतवानसि (पूर्वेषाम्) पूर्वमहात्मनाम् (हरिवः) अ०२०।३१।। हे श्रेष्ठमनुष्ययुक्त (सुतानाम्) निष्पादितानां सिद्धान्तानाम् (अथो) अपि च (इदम्) दृश्यमानम् (सवनम्) ऐश्वर्यम् (केवलम्) असाधारणम्। विशेषम् (ते) तव (ममद्धि) मदी आमोदे-शपः श्लुः। हर्षय। तर्पय (सोमम्) ऐश्वर्यम् (मधुमन्तम्) ज्ञानयुक्तम् (इन्द्र) हे परमैश्वर्यवन् राजन् (सत्रा) निघ०३।१०। सत्येन (वृषन्) हे महाबलवन् (जठरे) अ०२०।२४।। प्रादुर्भूते जगति (आ) समन्तात् (वृषस्व) वर्षय ॥