Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 2
सूक्त - बरुः सर्वहरिर्वा
देवता - हरिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-३२
आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र। पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥
स्वर सहित पद पाठआ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुज॑: । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ ॥ पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्व॑: । हय॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽश्रोणिम् ॥३२.२॥
स्वर रहित मन्त्र
आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र। पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥
स्वर रहित पद पाठआ । त्वा । हर्यन्तम् । प्रऽयुज: । जनानाम् । रथे । वहन्तु । हरिऽशिप्रम् । इन्द्र ॥ पिब । यथा । प्रतिऽभृतस्य । मध्व: । हयन् । यज्ञम् । सधऽमादे । दशऽश्रोणिम् ॥३२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 2
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (जनानाम्) मनुष्यों की (प्रयुजः) प्रार्थनाएँ (हरिशिप्रम्) सिंह के समान मुखवाले (हर्यन्तम्) कामनायोग्य (त्वा) तुझको (रथे) रथ पर (आ वहन्तु) लावें। (यथा) जिससे (सधमादे) उत्सव के बीच (दशोणिम्) दस दिशाओं में क्लेश मिटानेवाले (यज्ञम्) यज्ञ [पूजनीय व्यवहार] को (हर्यन्) चाहता हुआ तू (प्रतिभृतस्य) प्रत्यक्ष रक्खे हुए (मध्वः) ज्ञान का (पिब) पान करे ॥२॥
भावार्थ - राजा सभा के बीच प्रजा की प्रार्थनाओं को सुनकर उनके दुःखों को मिटाकर राज्य की उन्नति का विचार करे ॥२॥
टिप्पणी -
२−(आ वहन्तु) आनयन्तु (त्वा) त्वाम् (हर्यन्तम्) कमनीयम् (प्रयुजः) युजिर् योगे-क्विप्। प्रयोजनाः। प्रार्थनाः (जनानाम्) मनुष्याणाम् (रथे) रमणसाधने याने (हरिशिप्रम्) अ०२०।३०।४। सिंहसमानमुखयुक्तम् (इन्द्र) हे परमैश्वर्यवन् पुरुष (पिब) पानं कुरु (यथा) येन प्रकारेण (प्रतिभृतस्य) प्रत्यक्षधृतस्य (मध्वः) मधुनः। ज्ञानस्य (हर्यन्) कामयमानः (यज्ञम्) पूजनीयं व्यवहारम् (सधमादे) सहमोदस्थाने। उत्सवे (दशोणिम्) सर्वधातुभ्य इन्। उ०४।११८। दश+ओणृ अपनयने-इन्, पृषोदरादिरूपम्। दशसु दिक्षु क्लेशानामपनेतारं नाशयितारम् ॥