Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 2
श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या ह॑न्ति वृ॒त्राणि॑ दा॒शुषे॑। गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥
स्वर सहित पद पाठश॒तानी॑काऽइव । प्र । जि॒ग॒ति॒ । धृ॒ष्णु॒ऽया । हन्ति॑ । वृ॒त्राणि॑ । दा॒शुषे॑ ॥ गि॒रे:ऽइ॑व । प्र । रसा॑: । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽभोज॑स: ॥५१.२॥
स्वर रहित मन्त्र
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे। गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
स्वर रहित पद पाठशतानीकाऽइव । प्र । जिगति । धृष्णुऽया । हन्ति । वृत्राणि । दाशुषे ॥ गिरे:ऽइव । प्र । रसा: । अस्य । पिन्विरे । दत्राणि । पुरुऽभोजस: ॥५१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 2
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(शतानीका इव) सैकड़ों सेनावाले [सेनापति] के समान (धृष्णुया) निर्भय [परमेश्वर] (प्र जिगाति) आगे बढ़ता है और (वृत्राणि) शत्रुओं को (दाशुषे) दाता [आत्मदानी उपासक] के लिये (हन्ति) मारता है। (गिरेः) पहाड़ से (रसाः इव) जलों के समान (अस्य) इस (पुरुभोजसः) बहुत भोजनवाले [परमेश्वर] के (दत्राणि) दानों को (प्र पिन्विरे) सींचते रहते हैं ॥२॥
भावार्थ - मनुष्य परमात्मा में आत्मसमर्पण करके धन-धान्य आदि बढ़ाकर आनन्द भोगें ॥२॥
टिप्पणी -
२−(शतानीका) विभक्तेराकारः। शतान्यनेकानि सेनादलानि यस्य स शतानीकः सेनापतिः (इव) यथा (प्र) (जिगाति) गच्छति-निघ० २।१४। (धृष्णुया) सुपां सुलुक्। पा० ७।१।३९। विभक्तेर्याच्। धृष्णुः। निर्भयः परमेश्वरः (हन्ति) नाशयति (वृत्राणि) आवरकान्। शत्रून् (दाशुषे) आत्मसमर्पकाय जनाय (गिरेः) पर्वतात् (इव) यथा (प्र) (रसाः) जलानि (अस्य) (पिन्विरे) पिवि प्रीणने सेचने च-लडर्थे लिट्। सिञ्चन्ति (दत्राणि) अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। डुदाञ् दाने-क्त्र। दो दद् घोः। पा० ७।४।४६। इति दद्भावः, यद्वा। दद दाने-क्त्र। दानानि (पुरुभोजसः) बहुभोजनयुक्तस्य ॥