Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 54/ मन्त्र 1
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑। क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
स्वर सहित पद पाठविश्वा॑: । पृत॑ना: । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजू: । त॒त॒क्षु॒: । इन्द्र॑म् । ज॒ज॒नु: । च॒ । रा॒जसे॑ ॥ क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥५४.१॥
स्वर रहित मन्त्र
विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे। क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
स्वर रहित पद पाठविश्वा: । पृतना: । अभिऽभूतरम् । नरम् । सऽजू: । ततक्षु: । इन्द्रम् । जजनु: । च । राजसे ॥ क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥५४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 54; मन्त्र » 1
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(विश्वाः) सब (पृतनाः) सङ्ग्रामों के (अभिभूतरम्) अत्यन्त मिटानेवाले, (क्रत्वा) अपनी बुद्धि से (वरे) श्रेष्ठ व्यवहार में (वरिष्ठम्) अतिश्रेष्ठ, (आमुरिम्) शत्रुओं के घेर लेने [वा मार डालनेवाले], (उग्रम्) प्रचण्ड (ओजिष्ठम्) अत्यन्त पराक्रमी, (तवसम्) महाबली (उत) और (तरस्विनम्) बड़े उत्साही (नरम्) नर को (राजसे) राज्य के लिये (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाला राजा] को (सजूः) मिलकर (ततक्षुः) उन्होंने [प्रजाजनों ने] बनाया (च) और (जजनुः) प्रसिद्ध किया है ॥१॥
भावार्थ - प्रजागणों को उचित है कि जो मनुष्य सबमें श्रेष्ठ गुणी प्रतापी होवे, उसीको सब मिलकर रक्षा के लिये राजा बनावें ॥१॥
टिप्पणी -
यह तृच ऋग्वेद में है-८।९७ [सायणभाष्य ८६]।१०-१२। कुछ भेद से सामवेद-उ० ३।१। तृच १४। तथा म० १-पू० ४।९।१ ॥ १−(विश्वाः) सर्वाः (पृतनाः) सङ्ग्रामान् (अभिभूतरम्) अभिभवतेः-क्विप्, तरप्। अत्यर्थम् अभिभवितारं नाशयितारम् (नरम्) नेतारम् (सजूः) संगत्य (ततक्षुः) तक्षतिः करोतिकर्मा-निरु० ४।१९। कृतवन्तः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (जजनुः) जनी प्रादुर्भावे-लिट्। प्रादुष्कृतवन्तः (च) (राजसे) राजृ दीप्तौ ऐश्वर्ये च-असुन्। राज्याय (क्रत्वा) क्रतुना। प्रज्ञया-निघ० ३।९। (वरिष्ठम्) श्रेष्ठतमम् (वरे) श्रेष्ठव्यवहारे (आमुरिम्) भुजेः किच्च। उ० ४।१४२। आ+मुर संवेष्टने यद्वा मॄ हिंसायाम्-इप्रत्ययः, कित्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्वम्। आभिमुख्येन वेष्टयितारं मारयितारं वा शत्रूणाम् (उत) अपि च (उग्रम्) प्रचण्डम् (ओजिष्ठम्) ओजस्वितमम् (तवसम्) अर्शआद्यच्। बलवन्तम् (तरस्विनम्) वेगवन्तम्। परमोत्साहिनम् ॥